________________
यदुसुन्दरमहाकाव्य
१०९
उविशेषकं तदलिके समौक्तिक
भ्रमरालके श्रियमुदश्चितं दधौ । त्रिजगज्जयी नु समत्त सायकं
मदनोऽथ मुक्तपदवीजिगीषया ।।३७।।
जनयांबभूव किल तल्ललाटिका
शितिचूर्णकुन्तलकलापवल्लरी । सुमनःशिलातिलकदीपकार्चिषः
__ समुदस्तकज्जलशिखालताभ्रमम् ।।३८।।
सुदृशो दृशौ शितिकनीनिकामणेः
किरणैर्गतागतविवर्तवर्तिनः । समरञ्जि नाञ्जनचयैः सखीकरा
ञ्जनलेखिनीलिखनजैर्नु मन्महे ॥३९।।
किमु यौवनेन नवशिल्पिनाऽमुना
धृतसूत्रमञ्जनविलेखरेखया । समकेति वर्द्धयितुमेधमानया
सुदृशो दृशोर्युगमपाङ्गतः परम् ।।४।।
घनमेचका नजरेखयाऽङ्कन
समुपेत्य नीरजयुगस्य तद्दृशौ । सुषमामवापतुरनगधन्विना
विशिखीकृतस्य किणनीलिमस्पृशः ।।४।।
वरवर्णिनीश्रवणयुग्ममीक्षण
द्वयसञ्जनेन कृतबाधमुच्चकैः । किमलञ्चकार सरसीरुहद्वयं
किल कर्णपूरमिषतो द्विषत्तमम् ।।४२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org