________________
पद्मसुन्दरसरिविरचित
कृतबन्धुजीवकसरोरुहार्हणं
शशिनं नु चम्पकसुमोपहारितम् । सरदच्छदे क्षणमिवैतदानन
- सुमनःशिलातिलकितं जिगाय तम् ॥३१॥
अपराऽभिकस्मरमदान्ध्यतामसी
तिमिराम्बरप्रचयवाणितन्तुताम् । सुदृशो जुगुम्फ मृदुकैश्यमञ्जरी
मसितागुरुप्रवरधूपधूमिताम् ॥३२॥
वदनाम्बुजं मृदुतनोइंगम्बुजे
__ वरबर्हिबर्हचयगर्हणाः कचाः । अधरारुणं तरलिते सुमेचका
व्यतिभात आकृतिनिसर्गसर्गतः ।।३३।।
अथ काऽपि धूपभरधूम गुम्फन
चिकुरभ्रमाद्विदधती सखीजनैः । स्मिततर्किता तदलकच्छटोच्चयं
निबन्ध सस्मितमुखी चिराय सा ॥३४॥
इदमीयवेणिरसमेषु वाहिनी--
प्रभवत्तमः पटलनीलिमच्छविः । स्फुटमेव नव्यकुसुमैः परिष्कृता
मदनेषुभिः शवलितश्रिय दधौ ॥३५॥
अदसीयभालफलके कचाम्बुद
क्षणभाविभा कनकपट्टिका व्यभात् । वदनामृतद्युतिसुधाऽशनादिव
स्थिरतामशिश्रयदिह श्रिया चिरम् ॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org