________________
Jain Education International
यदुसुन्दर महाकाव्य
स्नपिताऽथ सा सित दुकूलवाससा
विरराज राजदुहिता वृताऽधिकम् ।
शरदः प्रकाशशुचिका शहासिनी
किल पूर्णिमेव विमलाम्बरा निशा ||२५||
सुदृशः शिरस्यकचपाशमञ्जरी
गलितोदबिन्दव इवाभिषेकजाः ।
वदनेन्दुतर्जिततमिस्रमण्डली -
रुदिताश्रुपूरपृषता बभासिरे ||२६||
मृदुपक्ष्मलांशुकमृजाभिरुज्ज्वला
सुतनोस्तनुर्नु सुषमां दधौतमाम् । सुकलादशिल्पिधृतशाणतेजना
प्रतियातनेव रुचिरा हिरण्मयी ॥२७॥
अथ वर्णकाञ्चनविसारि सौरभं
पुरेतदीयमधिकं विदिद्युते ।
रुचिरं हि हेम यदि सौरभोचितं
जनवाद एष विदितस्तदाऽभवत् ॥ २८ ॥
क्षितिपात्मजां शुचिवितर्दिकान्तरं
विनिवेश्य मण्डनकलासु पण्डिताः । अतिनिद्रमादरपरा विनिर्ममुः
प्रतिकर्मकर्म निखिलाङ्गमङ्गनाः ॥२९॥
इयमुद्धरूपसुभगा प्रसाधिता
सुभगाभिराप सुषमां गरीयसीम् ।
किमु भूषयेयमनयाऽथ साऽद्युतत्
समगाह ततमिति मन्मनो भ्रमम् || ३० ॥
For Private & Personal Use Only
१०७
www.jainelibrary.org