________________
१०६
Jain Education International
पद्मसुन्दरसूरिविरचित
सिचयच्छिदा कृतसुमैरकालजैः
सुपरिष्कृता ततवितानसंहतिः ।
प्रतिसौधमुच्छ्रिततरा मधुश्रिया
किल भूषितं नभ इवान्वभाव्यत || १९ ॥
मुरजस्त्रिधाऽत्र निननाद सादरं
ततमाततं घनमरीरणद्द्घनम् । शुषिराणि तुङ्गशुषिराणि राणिभिः
प्रतिनादमेदुरतराणि चक्रिरे ||२०||
कलगीतिरत्र पिदधे न वल्लकीं
न च साऽपि शर्झरमयं न मर्दलम् । न च सोऽपि डिण्डिमडमत्कृतिध्वनिं
न हुडुक्कमेष न स चापि दुन्दुभिम् ||२१|
कलमन्द्रतारनिनदप्रतिश्रुता
परिमूच्छितो विविधवाद्यजन्यया ।
जनताऽम्बुधेः कलकलस्य डम्बरो
बधिरीचकार वसुदिग्गजश्रुतीः ||२२||
अथ शातकुम्भशतकुम्भमालिकाः सचतुष्कवेदिचतुरस्रमण्डले ।
समुदस्य राजतनयां पुरन्धयः
स्नपयांबभूवुरनघां यथाक्रमम् !|२३||
कनका कनत्कुचयुगेन निर्जिताः
कुटपङ्क्तयो दरनतानना हिया ।
अपि लम्भिताः किमुदहारकर्मणि
स्फुटमा मञ्जरियुता नु त बभुः ॥ २४ ॥
For Private & Personal Use Only
www.jainelibrary.org