________________
पद्मसुन्दरसूरिविरचित
सुतनोरथोत्तरतराऽधिभूषण
द्युतिराद्यभूषणरुचीरबाधत । स्फुटजातिसंविदमिवार्थसूत्रितां
सुविशेषसंविदसमानलक्षणा ।। ५५ ।।
वियति प्रसन्नमिव चन्द्रमण्डलं
निजमाननं मुकुरमण्डले वधूः । विनिभालयन्त्यतन
ललितभ्रमं प्रतिमिता बभार सा ॥५६।।
मणिमण्डनद्युतिपलाशमालिका
भ्रमरजसङ्गतशिलीमुखा बभौ । सुतनोस्तनुः किमवनाय धन्विना
कुसुमायुधन धनुषां शतैर्वृतः ॥५७।।
व्रततिः सुमैः सुरधुनीव वीचिभि
नलिनी घडतिभिरिव स्तुतिगुणैः । नृपता नयैर्नु विनयविनेयता
विरराज भूषणगणैः सधर्मिणी ॥५८।।
सपदि प्रसाधनकलासु कोविदै
रनुजीविभियंदुपतेः प्रसाधनम् । समपादि माङ्गलिकमुज्ज्वलोचित
प्रवितायमानपरिकर्मनिर्मितम् ॥५९।। .
अथ ककृतस्य मजया प्रसाधिता
जनमेचका कचकलापवल्लरी । शिखिबहकान्तिचयचौरिकाचणा
किमबन्धि तैरुचितविद्भिरस्य सा ॥६०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org