________________
यदुसुन्दरमहाकाव्य
हृत्सङ्गतं दृशि तिरस्करिणीव लज्जा
निह्मोतुमेनमभितोऽपि बभूव यावत् । उद्भिद्यमानपुलकैर्विषमेषुरस्या
लक्ष्यीचकार विशिखैरिव वर्म तावत् ।।५५।।
मन्दाक्षमन्मथरसद्वयविभ्रमेण
द्वैरथ्यरङ्गमनुभूतवती वरोरुः । द्वैराज्यसज्जनगरीव गरीयसीनां
__ शङ्काधियामनुपदं निरपादि पद्या ॥५६॥
उत्पिञ्जलामथ जनीं विनिशम्य सम्यक्
तां शौरये कनकवेत्रधरा निनाय । तस्योपकण्ठमुपनीय वधूः कर सा
कण्ठे वरस्य वरणस्रजमुत्ससर्ज ॥५॥
दूर्वाकुरैः शवलितां किल पुष्पमाला
____ कण्ठेन भूपरिवृढो विभरांबभूव । स्वीकारवर्णरचनां परिणीतवध्वाः
कामो यदूद्वहहृदीव लिपीचकार ।।५८॥
दूर्वाञ्चितां नवसुमस्रजमस्य कण्ठे
. शृङ्गारमूर्तिमिव सोत्पुलको लसन्तीम् । सा साभ्यसूयमवलोक्य नताननाब्जा
भाति स्म भावकलुषा किल भामिनीव ॥५९।।
सद्यस्ततः पुरपुरन्ध्रिगणः सहर्ष
मुत्कण्ठितः परभृतप्रतिमानकण्ठः । उद्गायति स्म कलमङ्गलगीतिमालि
वृन्दैरुलूलुमधुरां मधुरस्वरेण ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org