________________
पद्मसुन्दरसरिविरचित सद्यः प्रसद्य निजगाद यदुं नृधर्मा
दूरीकुरु प्रतिकृतिप्रवणां स्वहस्तात् । तामूर्मिकां सवति मे महती हृणीया
दीनं विलोक्य किल वीरयते न वीरः ।।४९॥
तस्याज्ञयाऽथ यदुसूनुरनूनसम्प
न्मुद्रां करात्समुदतारयदाशुहृष्टः । नैसर्गिकी तनुरुचं विदधत्स भूमे
रुत्सर्जनान्नट इव स्फुटमुद्दीदीपे ॥५०॥
तद्रूपसम्पदमकृत्रिमशोभनीयां
नेत्राञ्जलीभिरभितः परिपीय बाला । क्षेत्रे सुधोक्षणवशात्पुलकाङ्कुराणि
सा बिभ्रतीव सुदती सुतरां ललास ॥५१।।
उत्कण्ठयत्यविरतं यदुकण्ठपीठे
कामः स्म सद्वरणदाम निधातुमेनाम् । व्रीडा पुनः शयकुशेशययुग्ममस्याः
संस्तंभवत्यहह ! दोलितमानसायाः ॥५२॥
दोलायिते मृदुतनोर्हदि हीम्मराभ्या
मुत्तम्भितप्रवरवृष्णिकुलातपत्रे । अध्यासितः स्फुटमिवान्यरसातिशायी
शृङ्गार आभ्युदयिकीमधिराजलक्ष्मीम् ॥५३॥
दुद्राव हृद्रुतमहो दयितं नु तस्या
श्चक्षुर्गतागतमपत्रपया चकार । तदूपदीप्तिझरसङ्करपक्कदुर्ग
खजीभवत्किमिव सामिपथ प्रयाति ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org