________________
यदुसुन्दरमहाकाव्य
सनिर्देशानेष विद्याधराणां
वत्रिः कन्याः कौतुकं चक्रिराभिः । तन्नीवृद्भ्यश्चाचलिस्त्वां पिपासुः
सत्यां सन्धां वावहिस्ताद्विवोढा ।।४३।।
श्रुत्वा कुमारविदुषी गिरमेतदीयां
सायंतनी कुमुदिनीं दरदन्तुरश्रीः किञ्चित्स्फुटा मुकुलिता च जिगाय भर्तु
लाभादपहववशात्सविषादहर्षा ।।४४।।
अस्पृष्टभूतलमुदैक्षत यक्षकायं
शौरिं क्षितिक्षितमथ क्षितिमासजन्तम् । साक्षादबुद्धविबुधं च बुधं धवं सा
सानन्दमन्दपुलकाङ्कुरविच्छुराङ्गा ॥४५॥
स्वेदोदबिन्दुरिव यादवपुङ्गवाङ्गे
निर्वापयन्विरहजज्वरसज्वरातिम् । तन्न्या व्यलोकि नवहेमनि हीरदीप्तः
शनारकल्पलतया न तया कुबेरे ।।४६॥
सद्यो मणीवकमयीं धनदस्रजं सा
म्लायद्रुचि यदुपतेरुपकण्ठमालाम् । आलोकते स्म वरणस्रजमेष धर्ता
मां नादरीव नु दरादिति शङ्कमानाम् ।।४७॥
तन्निर्दिधारयिषया प्रतियातनाया
यक्षेश्वरस्य पुरतः स्म नतेन मूर्ना । बद्धाञ्जलिं तमनुनाथति नाथ ! भिक्षां
देहीति मे नृपकनी त्वदनुग्रहाय्याम् ॥४८॥
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org