________________
पद्मसुन्दरसूरिविरचित
एतत्काम्बोजवाहप्रखरतरखुरक्षुण्णधूलीतमिर
रुर्भास्वाननुष्णैर्वहति विधुतुलां रात्रितां वासरश्रीः । धौभूमीभूय भूयः किमु जगदजगभाति भाति क्रमाद्वा
कूपारः प्राप्तपारः कृतकृतकमहासेतुजस्कन्धवन्धः ॥३७।।
अदसीययशःस्कुटारविन्दे
.. गगनं भृङ्गनिमां विभां विभर्ति । रिपुकीर्तिखटीस्तृणेढि चैत
द्गुणताया गणनाङ्कवर्गलेखः ॥३८॥
मथुरा त्वमरावती महेन्द्रः
किल शौरिस्त्वमथो जनी मघोनी । ललताललनैः सुलालितस्व
ललनानां तुलनामिलातलेऽपि ।।३९।।
हरिणा किमयं यदूद्वहश्चे
न्ननु नाकः किमदःपुरी यदा सा । तदलं भिदुरेण भासते चे
दिदमीयज्वलदुज्ज्वलप्रतापः ॥४०॥
विषयोऽस्य महेभ्यलसन्नगरो
नगरं च बहुक्षणवन्निलयम् । निलयाः किलिकिञ्चितवत्प्रमदाः .
प्रमदाः समदद्विपसद्गतयः ॥४१॥
इह सारतरं नरजन्म ततः
सुभगं करणं शुभरूपमतः । मिथुनीकरणं तदिदं सदृशं
सदृशे सदृशं हि बिभर्ति विभाम् ।।४२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org