________________
यदुसुन्दरमहाकाव्य
निर्भीकोऽप्येष भीति वितरति समरे वीरवैरिप्रभूणा
___ माराद्वयोमारविन्दात्परिमलमिव तद्वर्गसर्गाद्यशो सत् । शुम्भच्छुभ्रांशुधामाद्भुतधवलतरस्फारहारातिगौर
चित्रं चित्तेव चञ्चत्तरशफरचलल्लोचनेऽमुं निधत्स्व ।।३१।।
एतस्यारातिवारः शरनिकर इति द्वैतमास्तेऽभियुद्धं
सन्नद्वं वेपथु वा कथमपि च न सीत्कारमावीःकरोति । वैमुख्यं प्राप नापि क्वचन किमपि ना धीरतां वा परं तच्
चित्रं मित्रं विभेदैक इति तदपरोऽमित्रमत्यन्तगामी ॥३२।।
एतत्तेजो हव्यवाहे पतनो
होता पातादेव मत्वेति वेधाः । तत्तत्तापव्यापनिर्वापणार्थ
चक्रे वारांनाथपाथः परीतिम् ।।३३।।
ज्याघटनोच्छतिणमुपरागं
वैरिकुलेन्दुव्यसनसरागम् । पश्य शयेऽस्य स्फुटमधिरागं
यूनि ! किमस्मिन्भजसि विरागम् ॥३४॥
व्योमन् ! स्वं तनु विस्तृणन्तु ककुभः पृथ्वि ! प्रथिम्णो भरं
____यायाः पूर्वयशोऽतिशायि निरगात्स्वैरं नु शौरेर्यशः । वीक्षध्वं परिपक्वसत्कणगणोच्छ्रवासादिव स्फोटति
ब्रह्माण्डं किल दाडिमीफलमिति द्वारेऽस्य बन्दिध्वनिः ॥३५॥
एतद्वैरियशो रसेन्द्ररसनाद्भूयोऽणुभिः पुञ्जितो
भेजे मन्दर एष दोषकलुषां दुर्वर्णवर्णश्रियम् । भूयोऽदःप्रतपत्प्रतापदहनाध्मातः परीपाकत
श्चञ्चत्काञ्चनरोचिराशुरुचिरं धत्ते नु जानीमहे ॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org