________________
९.४
Jain Education International
पद्मसुन्दरसूरिविरचित
विस्रस्तमाल्यनवपल्लव तल्पगन्धो
द्गारौ भासुरया सुरभीणि तत्र ।
दिव्याङ्गनासुरतकेलिमुदीरयन्ति
गोवर्धनाचलनितम्ब गुहागृहाणि ॥ २५ ॥
मायूरबर्हमुकुटाङ्कितवल्लवानां
उन्नालनीलनलिनाभतमालभाले
हुकारजोदजसमीरितगोगणानाम् ।
वृन्दावने त्वममुना कुतुकानि पश्य ॥२६॥
तत्र प्रतीरवनकुञ्ज निवासिवान
प्रस्था कलिन्दतनया नु विगाह्यमाना । लीना लिफुल्लनलिनीकलनीयलीलां
सा वावही तु तदनेन समं भवत्या ॥२७॥
तत्र द्रुमान्ततिभिः स्तबकस्तनीभिः । संश्लेषितान्किशल्याधरमञ्जुलाभिः ।
आजृम्भमाणपवमानचलाचलाभि
रेतेन हृद्यदयितेन निभालयाशु ॥ २८॥
योऽधीती कामशास्त्रे सुभगनरशिरः शेखरः सत्कुलीनों
मूर्तः शृङ्गार एषोऽद्भुतसकलकलाम्भोधिपारीणसम्वित् । नीलरागो भवत्या करिदशनलसत्कङ्कणाभ्यां भुजाभ्या
माश्लिष्टस्तत्र चित्रं वहतु रविसुता नीरवानीरकुञ्जे ॥२९॥
रोचिः कोशा द्रुचीनां शुचिरुचिरचयं सर्वमादाय नूनं
वेधा व्याधूतमोहो विदध इव मुखं चन्द्रबिम्बानुबिम्बम् । शेषैः पङ्काङ्कशङ्कां कचनिचयममुष्योत्तमाङ्गे दधानै-
धन्ये मन्ये रुशैरहमहमिकया केक़िबर्हातिगर्हाम् ||३०||
For Private & Personal Use Only
www.jainelibrary.org