________________
यसुन्दरमहाकाव्य
विश्वत्रयीविदितयादवतुङ्गवंश
मेनं स्थिता विशदकीर्तिविलासिकाश्वित् । रङ्गाङ्गणे त्रिजगतां किल नतीति।
कुन्देन्दुहारहरहासहिमाङ्गहारैः ॥१९॥
अस्याङ्गजेन जनतामवताऽवतारै
- गोवर्धनोद्धरणबन्धुरदोधरेण । विश्व द्रुहां किल कुलं निहनिष्यते द्रा
गि त्यायतौ विदुषि ! कालविदो वदन्ति ।।२०।।
येन स्वतोऽनुभवता भवतारकेण
ज्ञानेकताननिलयां परमात्मविद्याम् । मायामिषाद्विषयिणाऽपि तटस्थितेन मोक्ष्यन्त उतिभिरहो रमणीयगोप्यः ।।२१।।
युग्मम्॥
एतत्कुलेऽथ कलिकालकलङ्कपक्क
प्रक्षालनत्रिपथगासलिलप्रवाहः । नेमिस्त्रिकालकलिताऽखिलविश्ववेदी
तीर्थाधिपः प्रसवितेति विदुः पुराणाः ॥२२।। प्रांशुप्रतिक्षितिपतिस्फुटदर्पसर्प
प्रद्रावणप्रवणविक्रमवैनतेयः । अध्यास्त एष मथुरां पृथिवीमहेन्द्र
__ श्चन्द्रावदातगुणमौक्तिकहारहारी ।।२३।।
सन्माथुरीसवनवारिविगाहधौत
नेत्राञ्जनप्रचयमेचकितप्रवाहा । वेणीव भूमियुवतेर्यमुनाऽस्य पुर्या
श्वित्कालकालियशिखामणिमण्डिताऽस्ति ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org