________________
पद्मसुन्दरसरिविरचित
श्लिष्टां गिरं ननु निपीय नरेन्द्र पुत्री
. दोलायितेन मनसा विचिकित्सति स्म । कि किन्नरेश्वरमु वाव नरेश्वरं वा
सेयं मदर्थितपतिं नु परार्थगूढम् ।।१३।।
शौरियंदा किमु धनाधिपरूपधेयं
धत्तेऽथ हन्त किमहं नु वहे विमोहम् । यद्वा चकास्ति किल गुह्यकदिव्यका य
च्छायच्छलव्यवहितो दयितो ममैषः ॥१४॥
आः । कालकूट कलना किमियं सुराणां.
यन्मानुषोषु कृतकैतवनाटकानाम् । तेऽभ्यर्थिता हि दयितं दयितं ददन्ते
- प्रत्यूहयन्ति यदि कृत्यमिहौचिती का ।।१५।।
'दिण्टेन यश्च यदलीकतले व्यलेखि
सोऽहोऽपि गर्हिततमोऽस्य भिदः स्पृहायाः । उप्रैः प्रभाकरकरें मुमुदेऽरविन्द
मोषं प्रयाति घनसारनिभैस्तुषारैः ॥१६॥
सद्वा[क]परां क्षितिपुरन्दरनन्दिनी सा.
सम्भाव्य भाषितुमुपाक्रमत प्रगल्भा । कि निश्चलेन मनसा किल निश्चिकाय
नामुं सुकेशि ! भवती जगतीमहेन्द्रम् ।।१७।।
भ्रान्तिः का नु मृगाक्षि ! शुक्तिशकले रूप्यभ्रमोऽज्ञानतः
सारूप्यादथ चेन्न धर्मिणमतिक्रम्यापि धर्मप्रथा । व्यक्तिः स्फूर्तिरिति द्वयोः खलु पथक्तत्त्वं तु निर्णीयतां
भूस्पर्शादपि भू पुरन्दरममुं विद्धि स्वमोहं जहि ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org