________________
यदुसुन्दरमहाकाव्य
अस्याक्रीडे लीनसन्नीलरत्न
क्रीडाशैलः स्वर्णरम्भापरीतः । तत्रानेनामावहन्ती विहार
किं नाभिख्यां लप्स्यसे स्वर्वधूनाम् ।।७।।
अस्यारामेऽशोकतरुः पल्लवसूति
धत्तां शिञ्जन्मञ्जुलमञ्जीरसनाथैः । पादाघातैर्विभ्रमवत्या नु भवत्या
हर्षोद्रेकाद्रोमततिं तामिव सद्यः ।।८।।
पुष्पोभेदं प्रमदवने चाम्पेथो
मत्तस्त्वत्तो वदनसुरागण्डूषम् । तत्रामुष्य प्रणयवती प्रेमाई
• स्वादं स्वादं वहतुतरां गौरश्रीः ॥९।।
त्रस्यच्चकोरचिकुरां दृशमाकलय्य
तस्या घटप्रतिभटस्तनविभ्रमायाः । मूर्त्यन्तरं हरसखस्य निदर्शयित्वा
सा दण्डिनी पुनरभाषत भाषितज्ञा ।।१०।।
अद्भुतं नु वरवणिनि ! मन्ये
किन्नरेश्वरममुं न वृणीषे । एष वै भवसखो नरधर्माs
___ गण्यपुण्यजनतामहनीयः ।।११।।
चारुचामरनिकायपीतो
यः स्वदानविदितोरुचरित्रः । कुञ्चितभ्रु ! नरवाहनशाली
राजराज इति राजति सोऽयम् ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org