________________
॥ षष्ठः सर्गः ॥
राजव्रजादपगमय्य जनीं वहन्तो
__ वैनीतकं विनतबन्धुरकन्धरांशाः । तां निन्यिरे धनदयुग्ममिवावशिष्ट
__ प्रीतिं रथाङ्गमिथुनं हरिदश्वपादाः ॥१॥
उत्सारिका पुनरभाषत राजराज
एष स्वयम्वरमहे तव राजमानः । त्वं राजपुत्रि ! नवरागपरागरज्य
न्नेत्राब्जभङ्गिभिरमुं न च वीक्षसे किम् ॥२॥
अस्यालकापुरपुरन्दरसुन्दरस्यो
दीचीपतेरिव शची भव सारसाक्षि ! । तत्रेन्द्रनीलमणिकुट्टिमरम्यहर्म्य
वापीषु तेऽस्तु मुखमम्बुजविभ्रमाय ॥३।। सोमार्धधारिखपुरर्धहरा मृडानी
सौभाग्यवत्प्रणयिनीनिवहेषु सीमा । तां त्वं प्रसाद्य दयितप्रियतारहस्य
विज्ञास्यसि प्रदिमवश्यमवश्यभाव्यम् ॥४॥ एतस्य पूर्हरशिरःस्फुटचन्द्रिकाप
देशोन्मिषन्नयनभङ्गिभिराशु वीक्ष्य । त्वां गुह्यकेश्वरविमानशिरःपताका
लोलाञ्चलैः समभिनेष्यति सा सहर्षम् ॥५॥
एतद्विमानपरिणाहिवितर्दिवर्ती
मन्दार एव तव दास्यति कर्णपूरम् । कारोत्तम नयनविभ्रमदानदक्षं
क्षौमं सरागमणिमञ्जुलमण्डनानि ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org