________________
पद्मसुन्दरसरिविरचित
वार्ष्णेयवक्षसि मणि प्रतिभासमाने
मध्ये कियत्प्रतिमितं च कियदहिःस्थम् । शोभां बभार सुममाल्यमिव प्रसून---
बाणस्य बाणततिरर्धनिमग्नभागा ।।६१।।
प्रोद्यत्प्रमोदपुलकाङ्कुरविच्छुराङ्गी
मध्यास्यया स्मरधनुर्धर एष शौरिम् । लक्ष्यीचकार विशिखाऽभ्यसनैकवेदी
तन्वीमिवेति किल सा सुतरां बभासे ॥६२।।
तस्यास्तनूरुहततिः प्रवरां वरस्य
लक्ष्मी निरीक्षितुमिव स्फुटबालभावात् । उग्रीविकामकृतसम्मदसम्प्रकाश
प्रत्युज्जिहानपुलकाङ्कुरिताङ्गयष्टेः ॥६३।।
प्रादुर्बभूव यदुपस्य करे नवोढा
विन्यस्तदाम्न इह यत्किल धर्मवारि । निःपश्यमानकरपीडनमङ्गलस्य
कामः करोदकमिव स्वयमुत्ससर्ज ॥६४॥
चेत्पुष्पचापशरमारुतदोलनेन ।
तूलायिता मृदुतनोस्तनुरस्तु कम्पा । भूभृद्यदा यदुपतिर्बत वेपते त
च्चित्रं स्म काममितरत्र महत्यनास्था ।।६५।। स्पर्शात्करस्य नवकुड्मलकोमलस्य
स्तम्भो वरस्य सुतनोरजनिष्ट यश्च । मन्ये प्रसूनशरनव्यशरव्यदम्भ
स्तम्भो नवप्रणयिनीप्रणयप्रसूतः ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org