________________
यदुसुन्दरमहाकाव्य
भ्रामं भ्रामं दिग्भवदन्तावलंदन्तान्
____ कामं काम चन्द्रमहेन्द्रेभफणीन्द्रान् । कार कार चैतदरिस्त्रैणकपोले
विश्रान्तैतत्कीर्तिपरिस्फूर्तिरिहाङ्कम् ॥४९।।
जिह्मत्व सविधे दधाति समरे विभ्रत्पराचीनता
मुच्चै?रकठोरनिस्वनचयं मुञ्चत्यजस्र .धनुः । तत्तस्यापि गुणग्रहप्रवणधीधुर्यो गुणग्राहिणा
मेष प्राप्तविशेषशेखरशिखारत्नैर्न कैर्वर्ण्यते ॥५०॥
एतस्य चन्द्रकरसान्द्रयशःप्रकाशैः
प्रदाविता द्विषदकीर्तिमषीतमिस्रा । दिक्चक्रवालचरमान्तमियाय चक्र
वालस्य भूभृत इव श्रियमुद्वहन्तम् ।।५१॥
तद्विश्वविश्वमपि विश्वजनीनवीर्य
विश्वम्भरोदरदरीगतमाशु भृत्वा । रतद्यशांसि निरगुः किल पद्मनाभ
नाभीसरोरुह मिषादतिपाण्डुराणि ॥५२।।
हृन्मू द्विषदभिमानभूमिरेखां
हित्वाऽन्यान्सदयमयं शरैः प्रतीकान् ।। तद्वैतं किल विददार दूरदर्शी
नीतिज्ञो न खलु निरागसः क्षिणोति ॥५३।।
एतत्खड्गोद्वारितारिस्त्रियः स्वाग
___ वक्षोधाता व्यग्रहस्ताग्रटकैः । प्रोत्तुङ्गासु स्वस्तनाधित्यकासु
स्मैतत्कीर्तेः सुप्रशस्तिं लिखन्ति ।।५४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org