________________
पद्मसुन्दरसरिविरचित एतत्प्रतापतपनोप्मभरैस्तपर्तु
रुज्जृम्भतेऽरिसदनेषु सदोप्रतापैः । तत्र प्रपामरिवधूः शुशुभे वहन्ती
नेत्राश्रुपूर्णकुचकुम्भमयीं सुपुण्या ।।४३।।
मन्दारो नात्युदारो बहुलफलभरैर्भङ्गुरः शाखिकल्पो
मावा चिन्तामणिर्वा पशुरमरगवी या पयोदानदक्षा । एतेनैवार्थिसा वितरणविभवैर्यत्कृतार्थीकृतस्तत्
सन्ति व्रीडाजडाभाः सुरविटपिनिभास्ते तिराभूय भूयः ।।४४।।
आजानुबाहुजनितोऽपि जगन्ति गन्ता
__सद्यश्चतुर्दशमहोभिरहो ! विसारी । प्रोद्यत्प्रतापतपनोऽस्य तवारिनारी
हृत्सूर्यकान्तमणिषु प्रतिबिम्बितोऽभूत् ॥४५।।
प्राज्ञाऽथ सा क्षितिपतौ गरिमालयेऽपि
दृष्टि बबन्ध न च रागिणि तत्र चित्रम् । यद्वा विरुन्धति विधौ गुणिनां गुणोघः
स्फारोऽपि न स्फुरति हा ! परिहारदक्षे ! ॥४६।।
तामन्यवीक्षणपरां सुतरां समीक्ष्य
जन्यो जनस्तदपरं नृपमानिनाय । नापेक्षते हि करणीयविधौ प्रचार
वाचामहो ! सहृदयो हृदयोदितज्ञः ।।४७।।
भूयः कनकनकदण्डधराऽऽह तन्वीं
संज्ञाप्य भपमपरं नयनाञ्चलेन । द्राक्कीटकाधिपतिग्मकरी विधत्तां
त्वत्कायकान्तिहदिनीषु विवर्तनानि ॥४८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org