________________
यदुसुन्दरमहाकाव्य
एतद्वैरिक्षितीशक्षयचकितवधूः कन्दरामन्दिरान्त
लीना नीलालिमालां द्रुमकुसुमरसास्वादलीनां निपीय । भ्रान्त्या जम्बूफलानां क्षुधितशिशुभृशाश्वासनोदस्तहस्ता यावद् गृह्णाति तानि प्रययुरथ दिशस्तावदुड्डीय भृङ्गाः ।।३७॥
भ्रभङ्गभङ्गुरमुखी परिपीय राज्ञां
___ भूषामणिष्वनुकृतां शिबिकां वहन्तः । तां निन्यिरेऽन्यनृपति शशिनः समुद्रा--
लेखां ललाटमिव शिल्पविदेोऽष्टमूर्तेः ॥३८।।
साऽवीभणद्धरणिशक्रसुतां प्रतीत्य
राजान्तर कनकवेत्रधरोचितज्ञा । काञ्चीपुराधिपतिरेष धिनोतु चित्त
काञ्चीविमुद्रणपटुस्तव काञ्चनाभः ।।३९।।
एष त्वदाननसुधां वसुधासुधांशु
नेत्राम्बुजैः किल पिपासति कोमलानि । अस्याङ्गकान्तिसरसीषु विजृम्भतां वा
नीराजनाय तव नेत्रसरोजराजी ॥४०॥
एतेन द्विविधोऽपि मार्गणगणस्वार्थः कृतार्थीकृत
स्त्यागेन द्रविणस्य जीवितधनत्यागेन विद्वेषिणाम् । एतस्यैव गुणो द्विधाकृततनुः कर्णान्तगामी बभू
. वाद्यश्चाथ परो विसारिविभवो विश्वत्रयं व्यानशे ॥४१॥
वासिष्ठाम्बुभरो महेभमकरः खङ्गस्फुरद्वाडवः
सेनोल्लोलचयः पदातिलहरी पूरोऽस्य जन्यार्णवः । प्रत्यर्थिक्षितिपैस्तदाशुगवशैश्चित्र त्वरित्रं विना
भेदे यत्तरणेरपि स्फुटमहो ! तीर्णः सकर्णैः परम् ।।४२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org