________________
८४
पद्मसुन्दरसूरिविरचित
Jain Education International
तत्सम्मुखे न च मुखेन निरूपयन्ती
राजन्यमन्यमथ वेत्रवती बभाण |
एनं वृणीष्व मलयाद्विमहेन्द्रमिन्द्र
मातङ्गगामिनि ! महेन्द्र परार्ध्यशोभम ॥३१॥
एष त्वदीयमुखमारुत सौरमर्द्धि
संस्पर्द्धिनं मलयजं विधुरीकरोति । पाषाणघर्षण कुठारभिदाप्रयासै—
स्त्वद्वासितश्वसनपानविलासलुब्धः || ३२॥
त्वां चन्दनद्रुमवनीं परिरब्धुकामः
सभोगभागिव भुजङ्गमपुङ्गवोऽयम् । प्रत्यङ्गसङ्गकृतरङ्गतरङ्गितेन
शोभां बिभर्तु मुखमारुतपानपीनः ||३३||
अभ्यर्णमस्य नगरस्य विदूरशैलः
क्रीडाचलस्तव भवत्वविदूरवर्ती | यः संततं मुदिरमेदुरगर्जितेन
रत्नाकरोत्पुलकितानि तनौ तनोति ॥ ३४ ॥
धत्ते मौनमृजुत्वमाश्रुतिपथं गन्ता परेषां पर
रक्तानि व्रतयत्यरक्तजनतारागाय बद्धादरः । तद्विश्रम्भविधायिचेष्टितचणो मुख्यक्षितेरीशितुः
काण्डस्त[ण्डवयत्यद्दो ! व्रतविधौ दग्भं महादाम्भिकः ।। ३५।।
दुग्धाम्भोधीयवेलावलयनिलयितश्चन्द्रिका चन्द्रबिम्बे
कम्बुः
प्रांशुप्रालेयशैलस्तरलतररुचस्तारकास्तारहारः । किं वा सुरेभः फणिपतिफणता स्वर्गगङ्गातरङ्गा दिङ्नागा विष्टपेऽस्य प्रविलसति लसत्कीर्तिमूर्तिप्रकाशः ॥ ३६ ॥
For Private & Personal Use Only
www.jainelibrary.org