________________
यदुसुन्दरमहाकाव्य
जन्येऽदःपरिपन्थिनिर्भरगलद्दानाम्बुदश्यामल--
प्रोद्दामद्विपकुम्भतां व्यदलयच्चण्डांशुचण्डासिना । चण्डि ! त्वामनुनेतुमेव तदसौ तां त्वत्कुचस्पर्धिनी . मत्वाऽस्या वरिवस्ययाऽस्य किमु नो सद्यः प्रसादोद्यता ।।२५।
निःशेषक्षितिपालशेखरमणे ! प्रेम्णाऽनुनीय त्वया
___ संश्लिष्टा विजयेन्दिराऽनवरतं नाहं पुनर्जातुचित् । इत्येनं विगणय्यनिर्गतवती भी मिनी कोपिता
शत्रूणां रणरङ्गमङ्गसपदि स्मोज्जासयत्यञ्जसा ॥२६॥
मूर्ता वीररसोऽयमस्य युगपद्वीरस्य मूतौ ध्रुवं
युद्धायोद्धतकन्धरस्य निरगात्सेना यतः सात्त्विकी । रोग्णां कोटिरियं स्वमौलिमुकुटालङ्कारलक्ष्या महान्
पारे वा गुरुविक्रमस्य महिमा च्छेकैन कैर्वर्ण्यते ।।२७।
गुञ्जाहारमपास्य मौक्तिकलता किं कण्ठभूषा कृता
त्यक्त्वा वल्कलवाससं सुतनु ! ते कोऽयं दुकूलग्रहः।। मायूरच्छदरीढयेति नलिनं किं कर्णपूरीकृतं
हीहीत्यस्य वने वनेचरशतैः स्त्रैणं द्विषां हस्यते ।।२८||
एनं ततः स्मरशरप्रसरत्प्रताप
सन्तापितं निजगं चलचापलेन । निर्वापय त्वमयि ! सन्मृगनाभिमिश्र
___ कर्पूरपूरपरिवाहनिभेन भीरु ! ।।२९।।
तस्मात्तिरश्चरशिरःपरिभावनेन
सम्भाव्य तामुपरतां शिविकाधुरीणाः । शत्रुतपं परमथ स्म नयन्ति पद्मात्
फुल्लश्रियं कुमुदखण्डमिवेन्दुपादाः ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org