________________
पनसुन्दरमरिविरचित तामालिरालपदथो तदभीप्सितज्ञा
क्रीडाशुको मुकुटलोहितरत्नराशौ । स्वत्रोटिकोटिमवलोकय दाडिमाना।
भ्रान्तः कणान्क्षिपति भा मिनि ! मारमानः ।।१०।
अप्रस्तुतेन लपितेन ततः सदस्या
___स्तस्या बभूवुरभिनेयविलासहास्याः । मम्लौ महेन्द्रधरशेखर एष वीक्षा
पन्नो विपन्न इव तेन निराकृतोऽभूत् ।।२०॥
बालामनैषुरपरं च परंतपं ते
विज्ञाय चेष्टितमतोऽथ विमानवाहाः । पद्माकरात्सुरभितां मकरन्दशीता
देशान्तर मृदुतरा इव गन्धवाहाः
॥२१॥
तां भू पुरन्दरसुतामवदत्सुवेत्रा
भूपान्तरं तरलितेन विलोकितेन । स्वापारङ्गततरङ्गतरङ्गितेन
नेपालपालमसितभु ! निभालयामम् ॥२२॥
नीवृत्यमुष्य मृगनाभिसनाभिगन्ध- .
स्तत्त्वन्मुखानिलनिभो ननु वाति वायुः । त्वत्कामकेलिकलितश्रमवारिबिन्दून्
मन्दं मुदेव नुदतात्परिचारकोऽसौ ।।२३।।
पङ्केन तन्मृगमदस्य विचित्रपत्र
वल्ल
कुचमण्डलमण्डनाय ।
स्वापराधशमनाय तवानुराग
वल्ली नु पल्लवयतादयमत्र मूर्ताम् ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org