________________
यदुसुन्दरमहाकाव्य
ख्यातो महेन्द्रधरधीरमहेन्द्र एष
कालिङ्गकुञ्जरघटापरिघट्टनेन । स्वापीनतुङ्गकुचचूचुकविभ्रमाभां
शोभा नु पश्य दयितस्य भुवोऽस्य शैले ॥१३॥
एतस्योद्धरसिन्धुरैरपि मृधे कान्तां पुनर्जङ्गमै
र्जानानो धरणीधरैः स्म धरणीं धीरः पृथुः पार्थिवः । एतत्सङ्गरसङ्गताऽमरसमज्यामध्यमध्यासितो
भूयो भूधरभूरिभारहरणे मेधां विधत्तेतराम् ।।१४।।
एतत्तुङ्गतुरङ्गसंहतिखुरोल्लेखकृतक्ष्मातल
क्षेत्रेषु क्षितिभर्तुरुज्ज्वलयशो बीजं करः किक्किरन् । निस्त्रिंशक्षतवैरिवारणगलद्रक्ताक्तमुक्ताकण
व्याजादस्य निरस्य दस्युयवसान्युद्गाढमुद्गाहते ॥१५।।
एतत्प्रतापदहनोत्थितधूमभूम
लेखैव यत्किल करे करवाल एषः । चेदन्यथा कथममुष्य सपत्नपत्नी--
नेत्रेषु कन्दलयति स्रवदश्रुबिन्दून् ।।१६॥ यस्मादैवतरात्रिवासरपरीवाहस्थिति किनां
यस्यास्ति प्रतिमानमौर्वदहनोऽम्भोराशिसर्वकषः । नूनं यः पतिपक्षपक्षजयशो नक्षत्रभानंशकृत्
स प्रोद्यत्तमसत्प्रतापतपनो विश्वेऽस्य विद्योतते ॥१७॥
एतत्संयुगसांयुगीनविलसद्दोर्वल्लिभल्लाहत
द्वेषिस्त्रीकरकम्बुकङ्कणविशच्छेदाशनैकस्पृहा । अस्यामित्रकलत्रनेत्ररुदिताम्भोनिझरे खेलति
क्षोणीमण्डलमण्डन किल यशो हंसालिरिन्दूज्ज्वला ।।१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org