________________
पद्मसुन्दरसूरिविरचित स्वीये मुखाम्बुरुहिनालमिवाङ्गुलिं सा
सद्यो ददौ तदुदितं प्रतिषेधयन्ती । मत्वाऽथ जन्यजनताऽन्यमजीगमत्तां
भूपं मधुःश्रियमिवाशु वनान्तराणि ॥५५।।
द्वाःपालका नृपकनी कमनीयवाचा
सा प्रत्यपीपददथ प्रतिभा प्रगल्भा । एतं नितम्बिनि ! रही मिथिलाक्षितीन्द्र
मानन्दय स्वनयनाञ्चलचन्द्रिकाभिः ॥५६॥
त्वद्वक्त्रसारसरसीरुहसौरभाढ्य
सौन्दर्यमञ्जमकरन्दमिलामहेन्द्रः । एष स्वदृग्मधुकरीयमलेन पीत्वा
स्वर्भोगिभोगभरताविमुदं मिमीताम् ।।५७॥
एतत्कीर्तिविवर्तशुभ्रपटलैराप्लाविते विष्टपे
- तारास्तारकराजमुत्तरलिताः सम्मायन्ति ध्रुवम् । शम्भुः स्वं च भुजङ्गपुङ्गवमिभं भ्रान्तो दिवीन्द्रो मृगं
चन्द्रो मार्जति दुग्धसिन्धुमधिकं धैर्यण ताक्ष्यध्वजः।। ५८।।
द्विषत्कीर्तिवातं कृतकमपि पुञ्जीकृतमसौ
जगन्मूषागर्ने मिहिरकरजालोज्ज्वलतरैः । । स्वतेजोऽग्निज्वालैधमति कमनीयं समभव
___ यशस्तारं सारं गुरुतरममुष्य स्म निचितम् ॥५९।।
. इदमरिधरणीधवाः सदाराः
किल गहनाद्गहनान्तरं प्रयान्तः । अथ कथमपि काननायमानं
स्वपुरमगुः सशिवारवं क्रमेण ॥६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org