SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ माणिक्यसुंदरसूरिकृत नेमीश्वरचरित फागबंध ५९ इति श्री नेमीश्वर चरित्रं. फागुबंधेन श्री माणिकसुंदरसूरीश्वरेण कृत छ, शुः. महं माधा लिखितं:. शुभं कल्याणमस्तु . छ. श्री वीतरागदेववादीयः. छ. (पत्र ६-११, बी. ७ नं. १६० - ३ रो. ए. सो. मुंबई.) इति श्री नेमीश्वर चरित्र फागः समाप्तमिति. छ. मुनिना मतिसागरेण लिखितमिति. शुभं भवतु. कल्याणं अस्तु. छ. छ. (पत्र २ पंक्ति १९, दाबडो ८३ नं. १५६ फोफलियावाडानो भंडार, पाटण.) ( ४ पत्र पछीनुं छेल्लं पत्र नथी, दरेकमा २० पंक्ति छे, नं. ८७१, श्री महावीर जैन विद्यालय, मुंबई.) संस्कृत टीका (उपरना आखा काव्यमां प्रथमना मंगलाचरणना श्लोक सिवाय जे संस्कृत छंदो मूकेला छेतेना अर्थ समजाववा श्री महावीर जैन विद्यालयनी प्रतमां संस्कृत टीका छे अत्र मूकवामां आवे छे के जेथी अर्थ समजवामां सहेलाई थाय.) २. तत् किंचिज्ज्योतिर्जयति तत् किं ? यदलक्ष्यं दक्षाणामपि पुनस्तत् किं ? यत् सहस्राक्षनयनैर्न निरीक्ष्यं दुश्च्यवन (?) नयनैः (न) निरीक्षणीयं पुनस्तत् किं ? यश्चतुर्वक्त्रवदनैर्वाच्यं न भवति वेधसो वदनैर्यद् वक्तुमशक्यं यदेतावत एतादृशामपि . पुनस्तत् किं ? यद् हविर्भुक्तारेन्दुग्रहपतिरुचां जैत्रं यदग्नितारकचंद्रमस्तरणेर्तेजसां जयनशीलं. पुनस्तत् किं ? यदनघं निष्पापं पुनस्तत् किं ? यत्परमुत्कृष्टं. पुनस्तत् किं ? यतियोगींद्रविषयं यतियोगींद्राणां गोचरं. एषु स्थानं वा एवं विधं तत् किंचिज्ज्योतिर्जयति. ३. एवंविधाय परब्रह्मणे नमः किं लक्षणाय ? अर्वाचीनैरलक्ष्याय अद्यतनैः पुरुषैर्न लक्षितुं योग्याय. पुनः किं लक्षणाय ? दक्षाय स्वभावविज्ञाय पुनः किं लक्षणाय ? दुरितच्छिदे दुरितं पापं छिन्दतीति दुरितच्छिद् तस्मै दुरितच्छिदे पुनः किं लक्षणाय ? चिदानंदस्वरूपाय चिद् ज्ञानमात्मशुभ्रगुणः तस्यानंदं सुखं तन्मयं स्वरूपं यस्य तच्चिदानंदस्वरूपं तस्मै. १०. ते नरा धन्यास्ते के ? ये गिरनारगिरेर्मोलौ मस्तके नेमिनं जिनं नत्वा स्वं स्वकीयं पातकं क्षालयंति किं लक्षणास्ते ? नराः धृतसम्मदाः धृतः सम्मदो हर्षो यैस्ते धृतसम्मदाः. १८. अथेति अथानंतरं सर्वे यादवभूपाला; सौराष्ट्रमंडले गताः कस्मिन्सति ? चरित्रं वैष्णवं श्रुत्वा जरासंधे कोपने सति कुद्धे सति. २५. ते सर्वे सिद्धगंधर्वखेचरा नेमिभुजाबलं जगुर्गायंति स्म किं क्रियमाणा ? चित्रीयमाणा आश्चर्यं प्राप्नुवंतः पुनः किं क्रियमाणाः ? हर्षात् पुष्पाणि वर्षन्तः. ३०. सोऽयं नेमिजिनेश्वरो विजयतां सोऽयं कः ? यो राज्यं न समीहते न वांछति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002640
Book TitlePrachin Madhyakalin Sahitya Sangraha
Original Sutra AuthorN/A
AuthorJayant Kothari
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages762
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy