________________
भश्रीचक्रधरप्रणीतः [का०पृ०१२१, वि०पू०१३३ [बृहती १.१.५]। ननु मीमांसकभाष्यकृता देवदत्तस्य देशान्तरप्राप्ति गतिर्विका दृष्ट्वा आदित्येऽपि देशान्तरप्राप्त्या साक्षाद् विशेषरूपेणैव क्रियानुमानमुक्तम्, अतः कथमेवमुच्यते इत्याशङ्कयाह-न तु विशेषविषयमिति । विशेषे व्याप्तिग्रहणस्यासम्भवादिति । गतेनिन्यपरोक्षत्वान्ने कदाचित् प्रत्यक्षेण देशान्तरप्राप्त्या सह सम्बन्धग्रहणं तस्या इति । अदृष्टस्वलक्षणानुमाने तु सम्भवति सम्बन्धग्रहः; यथा अङ्करादि कार्य सत्यपि बीजे कदाचिद् दृश्यमानं बीजातिरिक्तकारणान्तरापेक्षमिति दृष्टम् एवं संयोगादि सत्यपि देवदत्ते कदाचिद् दृश्यमानं तदतिरिक्त कारण पेक्षीति भवति सम्बन्ध ग्रहः । शक्तावपि दाहादेः कादाचिकत्वात् कार्यत्वम् , कार्य च कारणं विना न सम्भवति, दृष्टस्य चाग्निस्वरूपस्य मन्त्रादिसन्निधाने व्यभिचारात् अदृष्टस्य कारणत्वकल्पना कार्यत्वबलादेव, इति कार्यमात्राच्छवस्यनु[58A]मानम् । कार्यविशेषाच्च संयोगादेः क्रियानुमानम् । अथवा यथा भाट्टैयाख्यातम्-'यत्र तेनैव धूमेन तस्यैवाग्नेरनुमानं तत् प्रत्यक्षतो दृष्टसम्बन्धम् , यत्र तु अन्येन विशेषेण सम्न्धग्रहोऽन्यस्य चाव- : गमस्तत् सामान्यतोदृष्टम् तदनेन 'न तु विशेषविषयम्' इत्यादिना निराक्रियते । यो विशेषोऽनुमीयते तेन सह व्याप्तिन गृहीता, न चान्येन व्याप्ती गृहीतायामन्यस्यानुमितिः, अतिप्रसङ्गादिति ।
विततालोकावयवीति । आकाशते आ समन्तात् प्रकाशत इति व्युत्पत्त्याऽऽलोकावयविन एवाकाशत्वम् ।
साङ्ख्यानां तु कुतोऽनुमानघटनेति । तेषामुपादानरूपा जातिः, यथाघटादीनां मृदुपादानम् , सर्वेषु घटादिषु मृद्रपतानुवृत्तेः, सैव तेषां जातिः सामान्यम् ।
१ प्रत्यक्षेण गच्छति द्रव्ये, संयोगविभागातिरिक्तविशेषानुपलब्धेः । यस्त्वयं गच्छतीति प्रत्ययः, स संयोगविभागानुमितक्रियालम्बनः । प्रकरणपं० अनु० पृ०२१७ । शास्त्रदीपिकायास्तकंपादे लोकवार्तिकव्याख्याने न्यायरत्नाकरे च भाट्टसम्मतं कर्मण: प्रत्यक्षत्वं समर्थयामास पार्थसारथि नन्दीश्वरस्त प्रभाकरविजयस्य नवमे प्रकरणे पार्थसारथिनोक्तं दुषणमपास्य प्रभाकरसम्मतं कर्मणोऽ नुमेयत्वं व्यवस्थापयामास । २ सर्वभावानां शक्तिरदृष्टस्वलक्षणापि कार्येणानुमीयते. भग्नेयथाभूतादेव दाहो दृष्टः, तथाभूतादेवाग्नेमन्त्रौषधिप्रणिधाने कार्य न दृश्यते। न तत्र दृष्टमेव स्वरूपं कारणम् । यद्धि दृष्टं कारणं तस्याजनकावस्थातो विलक्षणत्वाभावात् कार्यानुदयप्रसङ्गात्। प्रकरणपं०अनु०पृ०२१८ । ३ यदि धयन्तरापेक्षा तत्र सामान्यदृष्टता। स्यादमिधूमयोः सैव तस्मादेवं प्रचक्षते ॥१४०॥ प्रत्यक्षदृष्टः संबन्धो ययोरेव विशेषयोः गोमयेन्धनतज्जन्यवि. शेषादिमतिः कृता॥१११॥ तद्देशस्थेन तेनैव गत्वा कालान्तरेऽपि तम् । यदाग्नि बुध्यते तस्य पूर्वबोधात् पुनः पुनः ॥१४२॥ संदिह्यमानसद्भाववस्तुबोधात् प्रमाणता । विशेषदृष्टमेतच्च लिखितं विन्ध्यवासिना ॥१४३॥ प्रलो०वा अनु। द्र० तन्त्र०वा०पृ०३६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org