________________
का०पृ०१२७, वि०पृ०१३९] न्यायमञ्जरीग्रन्थिभङ्गः यस्तु 'अयं घटोऽयं घटः' इत्यादिक एकाकारप्रत्ययः स तेषां मते सादृश्यनिबन्धनो न सामान्यनिबन्धन इति । यदुक्तम्-'पिण्डसारूप्यमे[58B]व सामान्यम्" इति; सारूप्यावच्छिन्नः पिण्ड एवानुगतप्रत्ययहेतुरित्यर्थः। तच्चोपादानं प्रतिविकारमन्यच्चान्यच्चाभ्युपगन्तव्यम् ; अन्यथा विकाराः परस्परं भिन्नास्तदुपादानं यद्यभिन्नमुपेयते तदा चाऽभिन्नात्मन्युपादाने भिन्नात्मनो विकारस्य कथं सम्भवः । तत्र [पादाने योऽशो नास्ति स चेद् विकारेऽभ्युपगम्यते तदाऽसत उत्पादात् सत्कार्यवादहानापत्तिः । तद्भिन्नात्मनो विकारस्य भिन्नात्मैवोपादानमभ्युपेयम् ।
प्रचितां काचिदाश्रित्येति । क्रियाक्षणपरम्परायाः प्रचितत्वेन वृद्धया 'चिरेण कृतम्' इति प्रत्ययः ।
. मुहूर्तयामाहोरात्रेति । 'मुहूर्तेन कृतम्' इत्यादिविकल्पानामपि कार्यमात्रालम्बनत्वम् ; यथा सामान्यविकल्पस्य व्यक्तिमात्रालम्बनत्वं तद्वदेषामिति भावः ।
प्रावरं मतमुपसंहृत्य 'अन्ये मन्यन्ते' इत्यादिनाऽऽचार्यमतमाह ।
[दृष्टः परापरत्वस्येति । दूरस्थोऽपि युवा अपरोऽप्रकृष्टकालत्वात् कालापेक्षया, दिगपेक्षयाऽत्र पर एवासौ; निकटस्थो[59A]ऽपि स्थविरः प्रकृष्टकालत्वात् कालापेक्षया तु परो दिगपेक्षया त्वपर एव सन् ।
उत्पत्तिस्थितिनिरोधेति । उत्पत्तियोग्युत्पद्यमानम्, स्थितियोग्युत्पन्नम्, निरोधयोगि प्रागभावाक्रान्तं यत् फलम् । अतश्च यदुच्यत इत्यनेन 'वर्तमानाभावः पततः पतितव्यपतितकालोपपत्तेः' इति सूत्रं न्या०सू० २.१.३९] सूचयति । अतिक्रान्ते
१ तुलना-स्वलक्षणानामात्मभूतमेव सादृश्यमाकृतिः, तदेव सामान्यम्, तस्य वादः, स यस्यास्तीति । तद्वा वदितं शीलं यस्य सारख्यस्य। प्रवा०कर्ण०प्र०२१३। २ म कालो नाम कश्चित् पदार्थोऽस्ति । किं तर्हि ? क्रियासु कालसंज्ञा। यक्तिदीका०५०। स्यान्मतम्-क्रियामात्रमेव कालः ।...सर्वोऽयं कालव्यवहारः क्रियाकृतः । क्रिया हि क्रियान्तरपरिच्छिन्ना अन्यक्रियापरिच्छेदे वर्तमाना कालाख्या भवति। योऽपि समयो नाम भवद्भिरुच्यते स परमाणुपरिवर्तन क्रियासमय एव कालसामानाधिकरण्यात् । न समयपरिमाणपरिच्छेदकोऽन्यः ततः सूक्ष्मतरः कश्चिदस्ति कालः । तत्समयक्रियाकलाप आवलिका, तत्प्रचय उच्छवास इत्यादि समयक्रियाकलापपरिच्छिन्ना आवलिका उच्छवासपरिच्छेदे वर्तमाना कालाख्या। एवमुत्तरत्रापि योज्यम् । लोकेऽपि गोदोहेन्धनपाकादिरन्योऽन्यपरिच्छे दे वर्तमानः कालाख्य इति क्रियैव काल इति...। तत्वा०राज०पृ. ४८२। ३ अपरस्मिन् परं युगपदयुगपच्चिरं क्षिप्रमिति काल लिङ्गानि । वैसू० २.२.६ ।तत्र परेण दिकप्रदेशेन संयुक्ते यूनि परत्वज्ञाने जाते स्थविरे चापरेण दिक्प्रदेशे संयुक्तेऽपरत्वज्ञानोत्पत्तौ कृष्णकेशादिवलीपलितादिपर्यालोचनया येन निमित्तेन यूनि अपरत्वज्ञानं स्थविरेच परत्वज्ञानं जायते स कालः ।...। चन्द्रानन्दवृ०व०सू०२.२.६. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org