________________
का०पृ० १२१, वि०पृ०१३३] न्यायमञ्जरीग्रन्थिभङ्गः येयम्' इति तदा तदनन्तरमसकृत् पटोत्पत्तिदर्शनादविनाभावसम्बन्धस्मरणम्' ।
धुनी नदी। [आवर्तेति]आवर्तानां या वर्तनाः सम्पादनास्ताभिः शालि लाध्यशीलं यदुदकम् । . रोधोपघातेत्यनेन पूर्वपक्षसूत्रं 'रोधोपघातसादृश्येभ्यो व्यभिचाराद् अनुमानमप्रमाणम्' इति[न्या०सू० २.१.३७.] सूचितम् । यदि नदीपूराद् वृष्टयनुमानं तदसौ रोधात् सेतुभङ्गादपि भवति; यदि पिपीलिकाण्डसञ्चाराद् भविष्यवृष्टयनुमानं तदसौ रथाद्युपघातादपि भवति ; यदि च केकारवाद् मयूया(रा)नुमानं तदसौ पुरुषेणानुक्रियमाणोऽपि तत्सदृशो भवतीति ।
देशान्तरेण शैलादिना संयोगः सम्भ[57A]वतीति । अतिदूरवर्तित्वात् सूर्यस्येति भावः ।
स एव भावप्रत्ययेनोक्तः। तत्र दर्शनशब्दप्रयोगे सति 'तच्छब्दवाच्योऽयम्' इति शब्दप्रयोगात् । तदभावे कथं वतिः। "तेन तुल्य क्रिया चेद्वतिः" [पाणिनि ५. १. ११५] इति क्रियातुल्यत्वे वतेः स्मरणात् ।
अपरे पुनरिति प्राभाकराः । अदृष्टं स्खलक्षणं स्वरूपं यस्य क्रियादेस्तददृष्टस्वलक्षणम् अनवधृतस्वरूपमित्यर्थः । तथाहि-यथा सत्यपि बीजे सलिलाद्यभावाद् अङ्कुरोऽभवन् बीजव्यतिरिक्तकारणान्तरापेक्ष इति गम्यते एवं सत्यपि देवदत्ते संयोगविभागौ कदाचिद् भवन्तौ कदाचिच्चाभवन्तौ देवदत्तव्यतिरिक्तकारणान्तरापेक्षाविति गम्यते । तस्य हीत्थमस्तित्वमात्रेणावगतिः, 'अस्ति किञ्चित्कारणान्तरम्' इत्येवंरूपेण क्रियादेरनुमानात् , अत एवादृष्टस्वलक्षणत्वम् । तथा च तट्टीका-''अत्र केचिन्नीतिज्ञमन्या [अन]वधृतस्वलक्षणमेव कचिदनुमानेन सामान्यतो गृह्यते इति मन्यन्ते, तद्भमापनयायेदमुक्तम्-'तत्तु द्विविधया(धम्)' इति । अदृष्टस्वलक्षणविषयमप्यनुमानमस्ति क्रियादिषु । कथं पुनरदृष्टस्वलक्षणे सम्बन्धिदर्शनम् ? [57B]उत्पत्तिमतः फलस्य दर्शनात्" इत्यादि
१ तुलना- भपि चान्त्यतन्तुसंयोगानन्तरं पटो जायते तत्रापि शक्यं कारणात् कार्यानु. मानम् । यदा खल्वयमन्यत एवोदबुद्धसंस्कारो व्याप्तिस्मृतिमान् अविचलेवितरेषु तन्तुषु अत्यन्तानुत्पन्नायां क्रियायामिन्द्रियसन्निकर्षात् प्रथममेव परामृशति-तथा चेयमिति, तदेव क्रियातो विभाग इत्येकः कालः, अथ यदा विभागात् पूर्वसंयोगनाशस्तदा परामर्शादवश्यंभाविपटविशिष्टेयं क्रियेत्यनुमानोत्पाद इत्येकः कालः, अथान्त्यस्य तन्तोः तन्तुसंयोगोऽथ पटोत्पादोऽतस्तत्र रूपायत्टादः, अथ प्रत्यक्षदर्शनमित्यनुमानोत्पादस्य परस्ताच्चतुर्थे क्षणे प्रत्यक्षम् । यदि तु क्रियोत्पादानन्तरमा लोचनमिष्यते तथापि तृतीये क्षणे प्रत्यक्षस्योत्पादान्नानवसरमनुमानम् ।' न्याव्वाता०टी० १.१.५ (पृ०१७५)। २ मुद्रितमञ्जर्या 'धुनी' शब्दस्य प्रयोगः नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org