________________
६४
महावीचक्रधरप्रणीता [का०पू०११०, वि०पृ०१२१ यद् यस्य (तर्कस्य ?) यावान् विषय इति। पूर्वोक्तमेव दृढयति-यद् यस्माद् यस्य युक्त्यादेर्यावान्नियमो विषयः स युक्तयात्मा तावदिष्टविषये निरूप्यते प्रवर्त्यते ।
न च प्रतिभामात्रमिति । बाह्यनिमित्तानियन्त्रिता प्रतिभासमाना सद्भूताकारा प्रज्ञा प्रतिभा।
यौक्तिकम् युक्तिबलात् कल्प्यम् ।।
तयोरेवान्वयस्तत्रेति । यथा 'नास्त्यत्र धूमोऽग्न्यभावात्' इति यत्र यत्र आन्य[56A]भावस्तत्र तत्र धूमाभाव इत्यन्वयः । यत्र तु धूमस्तत्राग्निरिति व्यतिरेकः ।
विरुद्धानुमानविरोधयोरिति । धर्मविशेषाणां विपर्ययहेतवोऽत्र विरुद्धाः, यथा यदि कार्यत्वाच्छब्दस्य पराश्रितत्वं सिद्धयति, रूपादिषु तथादर्शनात्, तदा तेषु तथादर्शनादेव नित्यसर्वगताश्रितत्वाभावोऽपि सिद्धयेदिति । इष्टविघातकृत् पुनः साध्यस्यैव धर्मस्य विहन्तेति विशेषः ।
सद्वितीयप्रयोगास्त्विति । अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयुक्ते परः सद्वितीयप्रयोगेण प्रत्यवतिष्ठते-'अस्तु तत्साध्यधर्माधिकरणत्वशून्यधर्मिघटान्यतरसद्वितीयो घटोऽनुत्पलत्वात् कुड्यवत्' इत्यादिना ।
उत्पन्ना स्वत एव तर्काभ्यासनिरपेक्षेण प्रतीतिर्यतस्तदुत्पन्नप्रतीति ।
यत्राप्यनुमितादिति' । प्रभाभेदेनानुमिताद् देशान्तरप्राप्तिरूपाल्लिङ्गिनि सूर्यगत्यादौ । मौलिकम् मूले भवं प्रभाभेदरूपम् ।
__ भावधर्मस्य हे[56B]तोरसिद्धत्वमिति । यावत् तस्य सत्ता न सिद्धा तावत् धर्मों हेतुः कथं भावधर्मो भवेत् । अभावधर्मस्य विरुद्धत्वम् , न ह्यभावधर्मेण भावः साधयितुं शक्यते प्रत्युत तस्याभावसाधकत्वात् ।
हेतुना यः समग्रेणेत्यैस्योत्तरमर्धम् -- 'अर्थान्तरानपेक्षित्वात् स स्वभावोऽनुवर्णितः' इति ॥
धृमस्यान्यैश्च कल्पिता सा प्रमेयता 'अग्निमानयं धूमः' इति । रोलम्बो भ्रमरः । गवलं महिषशङ्गम् । क्रियावमर्शन मिति । उत्पन्नामन्त्यतन्तुक्रियां यदाऽवमृशति 'अन्त्यतन्तुक्रि
१ प्रलोभ्वा० अनु०१७० । २ तत्र यदि भावधर्मों हेतुरुच्यते, स कथमसिद्ध सत्ताके स्यात् । प्र. वा.स्वो वृ० पृ०६३ । ३ अभावधर्म भावमात्रव्यापिनोऽर्थस्य व्यवच्छेदं हेतुं सत्तायां वदतोऽस्य बिरुद्धो हेतुः स्यात् , तस्य भावे क्वचिदसंभवात् , अभाव एव भावव्यवच्छेदस्य भावात् । । प्र०वा० स्वो०वृ० पृ०६४। १ प्रवा०३.६। ५ मुद्रितन्यायमञ्जर्या तु क्रियादर्शनमिति पाठः। स च न समीचीनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org