________________
का००१पृ०९, वि० पृ० १२० ]
न्यायमज्जरीग्रन्थिभङ्गः
सामान्ये सिद्धसाधनादिति' । व्याप्तिग्रहणसमय एव धूममात्रस्याग्निमात्रेण व्याप्तिग्रहणादत्रापि धूममात्रमग्निमात्रेण व्याप्तं गृहीतमेव इति स्मृतिमात्रमिदानीं न स्वपूर्वं किञ्चिदित्यर्थः ।
अवस्था देशकालानामिति । गुडूच्यादेरभिनवजातस्यान्या शक्तिरन्या चिरजातस्य, तथा वत्सदेशजातस्यानूपदेशप्रभवाच्छक्तिभेदः, वसंता [55B] दिगृहीतस्य च शरदाघृत्वन्तरोद्भूतात् ।
अनुमानविरोधो वा यदीति । यत्र बलीयसा दुर्बलस्य विषयोऽपह्रियते तत्रानुमानविरोधव्यवहारः, यत्र तूभयोः प्रयोगः समकक्षतया संशयापादकस्तत्र विरुद्धाव्यभिचारिता, यत्पुनः प्रयुक्तं सदभिमतं धर्मं विहन्ति तदिष्टविघातकृत् यथा 'चक्षुरादयः परार्थाः संघातत्वात् शयनादिवत्" इत्यत्र शरीररूपसंघातपरार्थत्वेन शयनादीनां दर्शनादिष्टासंहतरूपात्मार्थत्वासिद्धेरिष्टविघातकारित्वम् ।
૬×
"
Jain Education International
१ 'विशेषेऽनुगमाभावः सामान्ये सिद्धसाधनम्' इत्यपि लोकायतसूत्रमिति कर्णगोभिना सूचितम् । “मस्तत्रापि स एव पर्यनुयोग इत्येवं सर्वत्र पर्यनुयोगपराण्येव सूत्राणि । तथा च सूत्रम् 'विशेषे... ' (कर्ण० पृ०२६) । २ कारिकेयं वाक्यपदीये (१.३२) उपलब्धा । तत्र तु 'कालादिमे 'स्थाने 'कालानां " इति पाठः । सेयं कारिका तत्त्वसङ्ग्रहेऽपि प्राप्ता (१४६० ) | श्री सोमानन्दनाथेन शिवदृष्टि. ग्रन्थे वाक्यपदीया कारिकेयं निर्दिष्टा, टीकाकार- उत्पलदेवेन तु सा उद्धृता व्याख्याता च । “न चापि भवतोऽनुमानं सम्यग्ज्ञानमिष्टम् “अवस्था देशकालानां... अतिदुर्लभा" इति "हस्तस्पर्शादिवान्धेन...न दुर्लभः ॥” इति चान्यच्च वदन्तः । न हि वस्तुव्यवस्थापने शक्ततायां प्रत्यक्षात् न्यूनता तस्य स्यात् । अशक्तायां तु अप्रामाण्यमेव ॥' उत्पलदेवटीका ३३ । अर्चटेनापि हेतुबिन्दौ ( पृ० १५४) उद्धृतेयं कारिका । तत्त्वसङ्ग्रहपञ्जिकाकारेण कृता व्याख्या अत्रावतार्यते - " अवस्थादेशकालमेदेन पदार्थानां शक्तयो भिन्नाः । अतो न शक्यतेऽनुमानात् तद्भावनिश्चयः कर्तुम् । न ह्येवं शक्यतेऽनुमानात् प्रत्येतुम् देवदत्तो भारोद्वहनसमर्थो न भवति, देवदत्तत्वात् बालावस्थदेवदत्तवदिति । अत्र हि अवस्थामेदेन शक्तिभेदसम्भवाद् व्यभिचारः । तथा देशभेदेन आमलकीखर्जूरादीनां रसवीर्यविपाकभेदो दृश्यते । तत्र नैवं शक्यते वक्तुम् - सर्वाssमलकी कषायफला अनुभूयमानामल की वदिति । तथा कालमेदेन कूपोदकादीनां शीतोष्णादिभेदः सम्भवति । तत्र सर्वा आपः शीता इति न शक्यते निश्चयः कर्तुम् । इत्येवमादि अवस्था देशकालानामिति भेदादित्यपेक्ष्य षष्ठी । भावानामिति प्रसिद्ध्यपेक्षया ॥ १४६० ॥ ३ 'ननु च तृतीयोऽपोष्ट विघातकृद् विरुद्धः । यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्छ्यनासनाद्यङ्गवदिति । तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद् विरुद्धः । स इह कस्मान्नोक्तः । अनयोरेवान्तर्भावात् । न्या०बि० ३.८६ - ९० । 'भयं च विरुद्ध आचार्यदिग्नागेनोक्तः । स कस्माद् वार्तिककारेण सता त्वया नोक्तः ? धर्मो०टी०पृ० २१३ । ४ आत्मन अस्तित्वसाधनाय सांख्येनोक्तमिदमनुमानम् । सङ्घातपरार्थत्वात्... पुरुषोऽस्ति ... ॥१७॥ सां०का० । इह संवाताः परार्था दृष्टा । तद्यथा शयनासनरथचरणादयः । अस्ति चायं शरीरलक्षणः संत्रातः । तस्मादनेनापि परार्थेन भवितव्यम् । योऽसौ परः स पुरुषः । यु०दी ० ।
For Private & Personal Use Only
www.jainelibrary.org