________________
भट्टश्रीचक्रधरप्रणीतः
[ का०पृ० १०८, वि०पृ० ११८
विशिष्ट इति । एवं चत्वारोऽग्नयः प्रत्येकं चतुर्धा भिद्यमानाः षोडश भवन्ति । तत्रैते पञ्चदश पक्षाः । तत्र प्रथमः पक्षः - ' सर्वोऽग्निरग्निमात्रं सर्वत्र यत्र कचन विद्यते ' इति सिद्धसाध्यतया इष्टम्, विनाऽपि धूमदर्शनमस्यार्थस्य लाभादिति, अत्र हि सर्वशब्दः प्रकृतापेक्षः । 'अनिर्धारितः पूर्वोपलब्ध इहोपलभ्यमानश्च यः स सर्वः सर्वस्मिन्ननिर्धारिते देशे पूर्वत्रेह भवत्येव' इति द्वितीये तृतीये चतुर्थे प्रत्यक्षादिविरोधः; न हि सर्वोऽग्निः शशशृङ्गवदनिर्धारित एकस्मिन् देशे, पूर्वानुभूते रसवत्याख्ये, समुपलभ्यमाने चाद्रौ सम्भवति । पञ्चमः प्रत्यक्षविरुद्धः, 'अनिर्धारितोऽग्निः सर्वत्र देशे विद्यते ' इति । न ह्यनिर्धारितस्य कस्यचिदग्नेरव्यापकत्वात् [ 54B] सर्वत्रावस्थानसम्भवः, रसवत्यादौ च निर्धारितस्यापि दर्शनात् । षष्ठे च ' अनिर्धारितोऽग्निरनिर्धारितदेशे विद्यते' इति सिद्धसाध्यतयैव [इष्टम् ], कस्यचिदग्नेरवश्यं क्वचिद्देशे भावात् । 'अनिर्घारितोऽग्निः पूर्वत्र रसवत्यां विद्यते' इति सप्तमे तथा 'अनिर्धारितोऽग्निरिह पर्वते विद्यते ' इति अष्टमे च प्रत्यक्षविरोधः, उभयत्र निर्धारितस्य दर्शनात् । 'पूर्वोऽग्निः सर्वत्र विद्यते ' इति नवमेऽपि प्रत्यक्षविरोध एव तस्य तदेशं प्रत्यागमनाभावादव्यापकत्वात् सर्वत्र वृत्त्यभावात् । तथा 'पूर्वोऽग्निरनिर्धारित देशे विद्यते' इति दशमेऽपि प्राग्वत् प्रत्यक्षविरोध एव । 'पूर्वोऽग्निः पूर्वत्र विद्यते' इति एकादशे सिद्धसाध्यता, अवश्यं यस्तत्र स तत्र भवतीति । एतत् तु अचिरदृष्टाभिप्रायेणोक्तम्, न तु पूर्वोऽग्निरवश्यं सर्वदा वा तत्र सम्भवतीति । 'पूर्वोऽग्निरिहाद्रौ विद्यते' इति द्वादशे असर्वगतत्वात् तस्यान्यत्र वृत्त्यसम्भवात् प्रत्यक्षविरोधः । एवं 'शैलस्थोऽग्निः सर्वत्र विद्यते' इति त्रयोदशेऽपि द्वादशवत् प्रत्यक्षविरोध एव । स एव शैलस्थोऽग्निरनिर्धारिते क्वचिदेशे विद्यते ' इति चतु [55A]र्दशे स एव । स एव पूर्वस्मिन् देशे विद्यते' इति च पञ्चदशे तस्याग्नेर सर्वगतत्वेनान्यत्र सञ्चाराभावात् प्रत्यक्षादिविरुद्धतैव ।
६२
तत्र देशविशेषावच्छेद् इत्यादि' । अयं भावः । स्वरूपेण गृहीतस्योत्पलादेलादि अवच्छेदकम् । न च देशग्रहणमन्तरेणाग्निग्रहणं समस्तीति देशग्रह उत्पलग्रह इव प्राकूपश्चादग्निग्रहो नीलत्वग्रहवदिति बलादायातमग्नेरेव विशेषणत्वम् । न ह्यग्रहीत उत्पले तस्य नीलत्वसम्बन्धः प्रतिपादयितुं शक्यते । विशेष्यत्वेन हि ग्रहणं विशेषणग्रहणात् परतः, स्वरूपेण तु पूर्वमेवेति ।
[प्रमाणस्यागौणत्वादिति ] | प्रमाणं प्रत्यक्षादि अगौणम्, उपचारानाश्रयणेन तल्लक्षणपदानां व्याख्यांनात् ।
१ ग्रन्थिरयं मुद्रितन्यायमञ्जर्या' नोपलभ्यते । २ लोकायतसूत्रमिदं संभाव्यते । तथापि कर्णगोमिटीकायाम् ( पृ०२६) अस्य सूत्रस्योपयोगः 'भ्रान्तं ह्यनुमानम्' इति सौगत सिद्धान्तस्य पूर्वपक्षस्थापनाय कृतः, तथा - 'अथ प्रमाणस्यागौणत्वाद् अभ्रान्तत्वाद् अनुमानस्य तु भ्रान्तत्वाद् भप्रामाण्यमित्युच्यते ।'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org