________________
६१
का पृ०१०८, वि०पृ०११८] न्यायमञ्जरीप्रन्थिभङ्गः तत्र शब्दस्य प्रवृत्तिनिमित्तमात्रमुक्तमिति मन्यते, तच्चाभावेऽपि किश्चिदस्ति यदशादभावत्वमिति भवति। तच्च भाववैलक्षण्यादि किश्चिदवश्यकल्प्यमित्यभिप्रायः। धर्मिण एव तदवच्छेदो भवत्विति । कारणोत्पादावच्छिन्नो धन्येव कृतकः, तस्य च यः कारणत उत्पादस्तदेव कृतकत्वमिति ।
एक एव धर्म इति । उत्पादाख्यो विनाशाख्यश्च ।
न सूत्रकारेण सामान्यग्रहणं कृतमिति' । 'उदाहरणसामान्यात् साध्यसाधनं हेतुः' इति हि क्रियमाणे न घटाख्योदाहरणसामान्यघटत्वं शब्देऽस्तीत्यहेतुत्वं स्यात् ।
कार्य कारणमित्यादि । 'मस्येदं कार्य कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्' इति सूत्रम् [वै० सू० ९. १८]। [53B] अस्यार्थः- अस्येदं कार्यमिति कार्यदर्शनाद् यत् कारणे ज्ञानमुत्पद्यते तल्लैङ्गिकमानुमानिकम् ; एवं कारणादिदर्शनात् कार्य-कारण-संयोग्यन्तर-समवाय्यन्तर विरोध्यन्तरेषु यज्ज्ञानं तल्लैङ्गिकम् । कार्यात् नदीप्रादुपरि देशे वृष्टेरनुमानम् , कारणाद् विशिष्टाया मेघोन्नते विन्या वृष्टेः । संयोगिनो धूमादग्नेः, समवायिन उष्णस्पर्शाद वारिस्थस्य तेजसः, विरोधिनो विस्फुर्जनविशिष्टाहेर्नकुलस्य । .
अतश्च तत्स्वभावः काल इति । सूर्यास्तमयादिः कालोऽत्यासन्नतारकोदयस्वभाव इति भावात् स्वभावानुमानात् स्वभावहेतुतेति त आहुः।
तादात्म्यतज्जननयोरपीति । वृक्षत्वशिशपात्वयोरग्निधूमयोश्च यत् तादात्म्य तदुत्पत्तिश्च ते किंकृते इति ।
अत एवेति । अविनाभावस्मृति विनाऽनुमेयप्रतीतेरनुत्पादाद्धेतोः । नन्वविनाभावसम्बन्धस्मरणस्यानुमानत्वे केवलसंस्कारजन्यस्यापि [हे!]तुत्वप्रसङ्ग इत्याशङ्क्याह-प्रत्युत्पन्नकारणेति । प्रत्युत्पन्नं वर्तमानम् । धूमस्य सन्निहितस्य दर्शनाद् उत्पन्नाऽविनाभावस्मृतिः 'यत्र धूमस्तत्राग्निः' [54A]इत्येवंरूपा 'इहैव च धूमोऽतोऽत्रै. वाग्निना भाव्यम्' इत्यस्यां प्रतीतौ पर्यवस्यति, न तु केवलसंस्कारजनितेत्यभिप्रायः।
षोडश विकल्पा इति । तथा चोक्तम्सर्वोऽनिर्धारितः पूर्वः शैलस्थोऽग्निश्चतुर्विधः । प्रत्येकं साध्यते सर्वपूर्वानिर्धारिताद्रिभिः ॥ [ ]
१ द्र० न्या०सू०१.१३४ । २ एके तावद् वर्णयन्ति लिङ्गलिङ्गिसम्बन्धस्मृतिरनुमानमिति । न्यावा०१.१.५। अत्राचार्य देशीयमतमाह-एके तावदिति । सत्स्वपीतरेषु स्मृतेरभावादनुमितेरनुत्पादेन स्मृतिरेवानुमानम् , इतरे तदनुग्राहका इत्यर्थः । न्यावा ता० टी० । ३ प्रन्थिरयं मुद्वितन्यायमार्या नोपलभ्यते ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org