________________
भट्टश्रीचक्रधरप्रणीतः [का०पृ०१०३, वि०पृ०११२ कदाचिदश्याम[52B]ष्वपि तत्पुत्रत्वं भवेदिति तत्पुत्रत्वस्य विपक्षे अश्याम च वृत्तिः सन्दिग्धा । व्यतिरेकवानेवायं हेतुरिति । न सन्दिग्धविपक्षवृत्तिरित्यर्थः ।।
- व्यवहारो हि नान्यथेति । यत्ने क्रियमाणेऽपि यन्नोपलभ्यते तच्चेन्नास्तितया निश्चीयते तदा सर्पाद्यभावनिश्चयनिबन्धनो व्यवहारो न स्यात् । अत एव विरुद्धाव्यभिचारीति । अत एव वस्तुनोऽद्विरूपत्वादेव परैरिष्टोऽपि भवद्भिर्विरुद्धाव्यभिचारी' नेष्यत इति ।
विपरीतसमारोपव्यवच्छेदार्थमिति । यो हि शघीयसीषु शिशपासु प्रवृत्तवृक्षव्यवहारो लव्यां शिंशपायामवृक्षत्वमारोपयति तस्यासौ आरोपोऽनेन व्यवच्छिद्यते 'वृक्षोऽयं शिंशपात्वात् " शिंशपात्वप्रतिबद्धं वृक्षत्वं न द्राधीयस्त्वादिप्रतिबद्धमित्यर्थः ।
अथ विद्यदाचनित्यत्वादिति । यदनित्यत्वं प्रयत्नान्तरीय[क]त्वप्रतिबद्धं न तत् ततोऽन्यत्र विधुदादाविति नास्ति तस्य ततोऽन्यत्र वृत्तिरिति ।
अनित्यत्वमिति भावाभिधायीति । 'तस्य भावस्त्वतलौ' [पाणिनि ५.१.११९] इति त्वप्रत्ययस्य भावाभिधायित्वम् , न चाभावस्याभावस्तीति(स्य भावोऽस्तीति ? ) विरुद्धम् । तस्मा[53A]दुभयान्तेति । प्रागभावप्रध्वंसाभावविशिष्टवस्त्वाधारा सत्ता उभयान्तपरिच्छिन्नेत्यभिधीयते ।
विनाशेनास्तु तादृशा भाविना।
विनाशी शब्दः अनित्यः शब्द इति । 'यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलादयः' इत्यत्र द्रव्यशब्देन विशेष्यमुक्तम्, गुणशब्देन तु
१ अनेकान्तिकः षट्प्रकारः-साधारणः, असाधारणः, सपक्षकदेशवृत्तिविपक्षव्यापी, विपक्षकदे. शवृत्तिः सपक्षव्यापी, उभयपक्षकदेशवृत्तिः, विरुद्धाव्यभिचारी चेति ।......विरुद्धाव्यभिचारी यथाअनित्यः शब्दः कृतकत्वात् घटवत् , नित्यः शब्दः श्रावणत्वात् शब्दत्ववदिति । उभयोः संशयहेतुत्वाद् द्वाषप्येतावेकोऽनकान्तिकः समुदितावेव । न्यायप्रवे०पू०३-५ । प्रमाणसमुच्चयेऽपि परार्थानुमानपरिच्छेदे दिङ्नागेन निरूपितोऽयं विरुद्धाम्यभिचारी। स्वलक्षणयुक्तयोर्हेत्वोरेकत्र धर्मिणि विरोधेनोपनिपाते सति विरुद्धाव्यभिचारी। हेतुषि०पृ०७० । विरुद्धाव्यभिचार्यपि संशयहेतुरुकः। स इह कस्मान्नोक्तः ? अनुमानविषयेऽसंभवात् । न हि संभवोऽस्ति कार्य-स्वभावयोरुकलक्षणयोरनुपलम्भस्य च विरुद्धतायाः । न्या०बि० ३.११०-११२ । २ यावन्तोऽस्य परमावास्तावन्त एव यथास्वं निमित्तभाविनः समारोपा इति तद्व्यवच्छेदकानि भवन्ति प्रमाणानि सफलानि स्युः। प्र०वा स्वो०० पृ०१७। तस्मादपोहविषयं लिङ्गमिति प्रकीर्तितम् । प्र०वा.३.४६....इत्यारोपितव्यवच्छेदार्थ साधनं....संप्रवर्तते। मनो०३.४४।३ तुल. नार्थ द्रष्टव्या न्या०बि०धर्मोन्टी०२.१६ । ४ या उभयान्तपरिच्छिन्नवस्तुसत्ता सा अनित्यतेति। न्या०वा०२.२.१२ (पृ०५९३)। ५ तुलना-यस्य गुणस्य योगाद् यस्मिन्नर्थे शब्दनिवेशस्तदभिधाने स्वतलौ। न्या०या०२.२.१२ (पृ०५९३)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org