________________
का०पृ० १०३, वि०पृ०११२]
न्यायमञ्जरीग्रन्थिभङ्गः
ज्ञानमानुमानिकं यत् तथा 'अयं पनसः' इति वोभयजं ज्ञानं]' प्रत्यक्ष प्रसज्यत इति तद्व्यवच्छेदाय 'अन्यदनुमानादिभ्यः' इति विशेषणम् ।
राजा व्याख्यातवानिति । राजा राजवातिककारः । सामान्यविहितस्येति अध्यवसायमात्रस्य प्रत्यक्षत्वे उत्सर्गत्वात् प्राप्ते लिङ्गशब्दजाध्यवसायस्य लिङ्गशब्दविषयत्वेन प्रतिपादनात् तदितरस्य प्रत्य[52A]क्षतेति तात्पर्यम् ॥छ।।
बाधाऽविनाभावयोविरोधादिति । अविनाभावेन साध्यप्रतिबद्धं साधनं ख्याप्यते, बाधया तु साध्यं विनापि साधनस्य सद्भाव इति ज्ञाप्यत इति विरोधः ।
एवं च सत्याक्षेपवाचोयुक्तिरिति । अन्यथा हि परामर्श एव स्यान्नाक्षेपः । अप्रतीयमानस्य हि कल्पनमाक्षेप इति ।
तदभावात् सुतरां तत्रावृत्तिरिति । तथा चाहतस्माद्वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः । तदभावेऽपि तन्नेति वचनादपि तद्गतेः ॥ इति ।। [प्र. वा० ३. २५] ।
ननु वस्तूनामद्विरूपत्वादिति । कथं हि यत् साध्यधर्माधिकरणतया लब्धसपक्षव्यपदेशं तद्विपर्ययेण चासादितविपक्षभावं तदेव तथाविधं पक्षव्यपदेशं लभेतेत्यर्थः ।
संदिग्धविपक्षवृत्तेरिति । श्यामोऽयं तत्पुत्रत्वादिति संदिग्धविपक्षवृत्तिः । यद्यपि दृश्यमानेषु तत्पुत्रेषु श्यामत्वदर्शनात् सपक्षवृत्तित्वमस्य तथाप्यदृश्यमानेषु
१ तथा ह्यकृतसमयो रूपं पश्यन्नपि चक्षुषा रूपमिति न जानीते, रूपमिति शब्दोच्चारणानन्तरं प्रतिपद्यत इत्युभयजं ज्ञानम् । व्योम०पू०५५५। २ कोऽयं राजा? कीथ-होल-आदिमहोदया राजा तु धारापतिर्भोज इति मन्यन्ते। किन्तु तेषां मतं न सङ्गतम् । न्यायमञ्जर्यामुद्धृतं राजवचनं युक्तिदीपिकायामुपलभ्यते – 'प्रतिराभिमुख्येन वर्तते' (यु दी० का०५) । सांख्यतत्त्वकौमुद्यां ये द्वे कारिके वाचस्पतिमिश्रेण राजवार्तिकत उद्धते ते अपि युक्तिदीपिकायामाद्यपञ्चदशकारिकासु प्राप्ते । अतो युक्तिदीपिकैव राजवार्तिकम् इति मे मतिः । कोऽयं युक्तिदीपिकाकार इति न विद्मः । एतद्विषये विशिष्टं संशोधनमपेक्ष्यते । ३ तुलना-तत्र अबाधितविषयत्वं तावत् पृषग् लक्षणं न भवति, बाधाऽविनाभावयोविरोधात् । हेतुबि.पृ०६८। ४ बाधाया अविनाभावस्य च विरोधादिति । तथाहि-सत्यप्यविनाभावे यथोक्ते बाधासम्भवं मन्यमानैरबाधितविषयत्वं रूपान्तरमुच्यते, सा चेयं तत्सम्भावना न सम्भवति बाधाया अविनाभावेन विरोधात् सहानवस्थानलक्षणात् । तमेव विरोधं साधयन्नाह-अविनाभावो हि इत्यादि । सत्येव हि साध्यधर्म भावो हेतोरविनाभाव उच्यते, प्रमाणबाधा तु तस्मिन्नसति। यदि हि सत्येव तस्मिस्तदभावविषयं प्रमाणं प्रवर्तेत तदास्य भ्रान्तत्वादप्रमाणतैव स्थादिति कुतो बाधा? ततः स हेतुस्तल्लक्षणः साध्याविनाभावो धर्मिणि स्यात् । अत्रं च साध्यधर्मः कथं न भवेत् यतो बाधावकाशः स्यात् । तस्मादविनाभावस्य प्रमाणबाधायाश्च सहानवस्थानम् , अविनाभावेनोपस्थापितस्य च तदभावस्य परस्सरपरिहारस्थितिलक्षणतया विरोधेन एकत्र धर्मिण्यसंभवादिति । हेतुबि टी०पू०२०६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org