________________
५८
भट्टश्रीचक्रधरप्रणीतः
[ का० पृ०९६, वित्पृ० १०४
यत्राप्यतिशय इति । सोऽतिशयः स्वार्थानतिलङ्घनात् स्वार्थ स्वविषयमनतिलङ्घ्य दूरगं सूक्ष्मं वा स्वार्थं गृह्णातु न पुना रूपे ग्रहणं श्रोत्रव्यापारादित्यर्थः । वृषदंशो मार्जारः । सम्पातिः गृध्रराजः ।
1
कामशोकभयोन्मादेति । कामशोकभयैर्यो जनित उन्मादश्चित्तवैकृत्यम् । स च चौरस्वप्नश्च तदादिभिरुपपलु [51A]ताः । यत्र स्वप्ने चौरं दृष्ट्वा सहसैव प्रबुद्धः शस्त्राण्युयच्छति स चौरस्वप्न इति धर्मोत्तरो व्याचष्टे । संस्था भ्यासोपकल्पित इति । एकस्यैव पदादेर्दशकृत्व आयुच्चारणमभ्यासार्थः, संस्था अध्येतृप्रसिद्धा । निष्प्रतिकाशमिति । निर्गतं प्रतिकाशमन्यसादृश्यं यस्मात् तन्निष्प्रतिकाशम्-अनन्यसदृशमित्यर्थः । प्रत्यूहभावनाभ्यासेति । रागादीनां मिथ्याज्ञानमूलानां प्रत्यूहो मूलविरोधित्वेन विरुद्धो यः तत्त्वज्ञानाख्यः तस्य । प्रमाणमिदमिष्यतामिति । एवंभूतस्य भवद्भिः प्रमाणतयाऽभ्युपगमात् । तदुक्तम् —
"तत्रा पूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् ।
अदुष्टकारणारख्धं प्रमाणं लोकसम्मतम् ॥” [ प्रमाणवा० भा० पृ०२१] इति ॥ न भ्रातुर्धर्मिण इति । तत्र देशे भ्रातुरसत्त्वम्, न स्वरूपेणेत्यर्थः । अत एव नानियत निमित्तकमिति । अनियत निमित्तकत्वान्निर्निमित्तत्वम्, अतश्चाप्रामाण्यं प्रातिभस्येति तेषामभिप्रायः । ननु च आर्षाख्यस्य ज्ञानविशेषस्य प्रत्यक्षादिविलक्षणस्य धर्मविशेषाद् ऋषीणां कदाचिच्चास्मदादीनामुत्पद्यमानस्य प्रतिभात्वमुक्तम्, अतस्तस्याः कथं प्रत्यक्षत्वमित्याह-न चार्षज्ञानमिति । केचित् सि [51B] - द्धानां योगिज्ञानवद् ज्ञानविशेष उत्पद्यते तत् प्रतिभेत्याहुः, तदपि न, अस्मदादीनामसिद्धानामपि प्रतिभाया दर्शनादित्याह - - न च सिद्धदर्शनमिति ।
चिरस्थायीति गृह्यते इति । चिरस्थायित्वं हि भाविकालसत्त्वम्, तत् कथं प्रत्यक्षेण गृह्येति भावः । [निष्प्रतिधयुक्तिरिति ] निष्प्रतिघा युक्तिर्निर्बाधमनुमानम् । “आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यद् उत्पद्यते ज्ञानं तदन्यद् अनुमानादिभ्यः प्रत्यक्षम् " इति [वै० सू० ३ १.१३] वैशेषिकोक्तं प्रत्यक्षलक्षणम् । तत्र आत्मा मनसा संयुज्यते, मन इन्द्रियेण इन्द्रियमर्थेनेति यः सन्निकर्षः तस्मात् । इन्द्रियगति
१ श्लो०वा०चोदना० ११४ । २ प्र० वि० पृ० ७४ प्र० वा० २ २८२ । . ३ प्रमाणविनिश्चयटीकायाम् । ४ आर्ष सिद्धदर्शनं च धर्मेभ्यः । वै० सू० ९ २४ । ५ बृहट्ठीका – ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org