________________
का०पृ०९६, वि०पृ०१०३] न्यायमञ्जरीप्रन्थिमनः
निरालम्बनविभ्रमाः स्वप्नादिज्ञानानि ।
अथ सति संप्रयोग इति 'सति'सप्तमीपक्ष एवेति । संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्मेति क्रियमाणे संप्रयोग इति किं सप्तम्यधिकरणे उभयस्य च भावेन भावलक्षणमिति सन्देहः स्यात् । अधिकरणसप्तमीपक्षे हि संप्रयोगविषयं यद् ज्ञानं तत् प्रत्यक्ष स्यान्न संप्रयुज्यमानघटादिविषयमिति, तन्निवृत्त्यर्थः सच्छब्दोपादानम् । सति संप्रयोगे सम्प्रयोगे सतीत्यर्थः । तथा चाह
सप्तम्यैव हि लभ्येत सदर्थः कल्पना पुनः । परेषां वारणीयेति यत्नो जैमिनिना कृतः ।। (श्लो०वा०प्र०सू० ३७) इति ।
शुक्तिकायोगो दुष्टत्वात् 'सं'शब्देन वार्यते। कथं तस्य दुष्टत्वमिति चेत् तदाहरजतेक्षणादिति ।
यदप्यत्रभवानिति । अत्रभवान् पूज्यो वृत्तिकार उपवर्षः, तत्कृतसत्तच्छब्दव्यत्ययपक्षे सच्छब्दः शोभनपर्यायः 'सत्प्रत्यक्षं शोभ[50B] नं प्रत्यक्षम्' इत्यर्थः ।
धर्मश्च त्रिकालाऽनवच्छिन्न इति । यजेतेत्यादौ हि विधिर्भावनायाः कार्यत्वमवगमयति, तेन च कार्यात्मना रूपेण सैव भावना धर्मः, तच्चास्याः कालत्रयासंस्पृष्टं रूपम् । अयजत यजते यक्ष्यत इति धर्मे कालत्रयासंस्पर्शन तत्प्रतीतेः । न च खपुष्पादिवत् कालत्रयासंस्पर्शाद् असत्त्वम् आशङ्क्यम् , यतो न खपुष्पादीनां कालत्रयासंस्पर्शकृतमसत्त्वम् अपि तु उपलम्भकप्रमाणाभावनिबन्धनम् । प्रत्यक्षत्वमदो हेतु: शेषहेतुप्रसिद्धये इति । अस्य परमर्द्धम् -'अस्मदादौ प्रसिद्धत्वाद्योग्यर्थमभिधीयते' इति । [श्लो० वा० प्रत्यक्ष० २१]
उन्दुरवैरिणो मार्जाराः । रामायणे श्रूयते इति । रामायणोक्त्या प्रामाणिकत्वमस्यार्थस्य दर्शयति, तस्य च प्रमाणत्वं प्रमाणभूते भारते तदर्थसंकीर्तनात् । शिष्टैश्च शिष्टस्मृतित्वेन परिग्रहादिति । तारतम्यसमन्वित इति । तथाहि-ये तारतम्यसमन्वितास्ते परातिशययोगिनो दृष्टा, यथाऽणुत्वमहत्त्वादयः परिमाणविशेषाः परमाणुत्वपरममहत्त्वलक्षणे परस्मिन्नतिशये प्रकर्षे विश्रान्ताः ।
१ असामर्थ्य च मत्वाऽस्य धृत्तिकारेण लक्षणे । तत्संप्रयोग इत्येवं पाठान्तरमुदाहृतम्॥१३॥ प्रलो. वा०प्र० सू० । किं तहि प्रत्यक्षम् ? तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षम् । यद्विषयं ज्ञानं तेनैव संप्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षम् । यदन्यविषयज्ञानमः न्यसंप्रयोगे भवति न तत् प्रत्यक्षम् । शाबरभा० १.१.५. । २ अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात् परिमाणवदिति । योगभा० १. २५. । प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तसिद्धिः । प्रमो० १.१.१६. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org