SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ५६ यस्य यत्र यदोद्भूतिरिति । भट्टश्रीचक्रधरप्रणीतः यस्य यत्र यदोद्भूतिर्जिघृक्षा वोपजायते । वेत्यतेऽनुभवस्तस्य तेन च व्यपदिश्यते ॥ [ श्लो० वा० अभाव० १३ ] इति भट्टश्लोकः । तत्रोद्भवः प्रमेयधर्मः, जिवृक्षा प्रमातृधर्मः । यदा सजनं गृहमसकृदुपलब्धवतो निर्जनगृहदर्शनं तदा 'नास्यत्र कश्चित्' इत्येवंरूपज्ञानजननयोग्यस्याभावांशस्योद्भवः, यदा त्वपूर्वमेव प्रदेशविशेषं पश्यति तदा 'कोऽत्रास्ते' इति एवंरूपप्रतीतिसमर्थस्य भावांशस्योद्भवः । अयमसौ भावाभावांशयोः प्रमेयधर्मयोरुद्भवः । जिघृक्षा तु यदा निर्जनप्रदेशार्थी तदा अभावांशस्य ग्रहणम्, यदा तु शीताद्यात गृहं मृगयते तदा भावांशस्येति । चेत्यतेऽनुभवस्तस्यैवांशस्य, तत्प्रकटताया एवोद्भवात् ; तेनैव चांशेनासौ पदार्थों व्यपदिश्यत इति । [ का०पृ०९२, वि० पृ०९९ तिमि [49B] राशुभ्रमणेति । संक्षोभो वातादिसम्बन्धी ज्वलत्स्तम्भादिदर्शनहेतुः । तिमिराशुभ्रमण नौयानसंक्षोभैराहितो विभ्रमो यत्र । भवतु मतिमहिम्न इति । भवतु आस्तां तावत् । यदेतंम् न्यायमार्ग तुलारूढं जगदेकत्र यन्मतिः । जयेत् तस्य क गम्भीरा वाचोऽहं जडधीः क च ॥ [ हे०बि० टी० पृ० १ ] इत्यादि स्तुतिवाक्यैरर्चटादिरचितैर्जगदभिभवधीरं चेष्टितं धर्मकीर्तेः सम्बन्धिनो मतिमहिम्नः कथ्यते तदेतद् दृष्टमिति योजना, न किञ्चिदेतदिति तात्पर्यम् । साम्यान्न यस्येति । तैरप्यविकल्पिकेत्यभिहितत्वात् । Jain Education International 'चोदनालक्षणोऽर्थो धर्मः' [मी० सू० १. १. १.] इति प्रकृतप्रतिज्ञा - सङ्गत्य - भावादिति । चोदनैव धर्मे प्रमाणं न प्रत्यक्षादि, यतः तदेवंलक्षणकं प्रसिद्ध मित्येवंलक्षणानुवादेन प्रकृतसङ्गतिर्भवेन्न लक्षणविधानेन ' एवंरूपं यत् तत् प्रत्यक्षं बोद्धव्यम्' इति । ' एवं सत्यनुवादत्वं लक्षणस्यापि सम्भवेत्' [ श्लो०वा० प्रत्यक्ष-सू० ३९ ]; एवंसति 'सम्यगर्थे हि संशब्दो दुःप्रयो | 50A ]गनिवारण:' [ श्लो० वा० प्रत्यक्षसू० ३८ ] इत्यादिप्रकारप्रतिपादने । १ प्रत्यक्षं कल्पनापोढमभ्रान्तम् । तया रहितं तिमिराशुभ्रमणनौयान संक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् । न्या०बि०१.४,६ । २ द्र० शाबरभा० १.२.३-४ । केचिदेतत्सूत्रं द्विधा कृत्वा "सत्संप्रयोगे" इत्यादि "तत्प्रत्यक्षम्" इत्येवमन्तं प्रत्यक्षलक्षणपरत्वेनव्याचक्षते, “अनिमित्तं विद्यमानोपलम्भनत्वात्” इतीदं तस्य धर्म प्रत्यनिमित्तत्वपरत्वेन । भाष्यकारेण तु सकलमेवेद सूत्रमनिमित्तत्वपरत्वेन व्याख्यातम् । तत्र पूर्वप्रस्थानपरित्यागे कारणमाह वार्तिककारः - वर्ण्यत इति । यः प्रत्यक्षलक्षणपरमिदं सूत्रं व्याचष्टे, तेनास्य सूत्रस्य "चे दनालक्षणोऽर्थो धर्मः " इत्यन्या प्रतिज्ञया सह सम्बन्धो वक्तव्यः; न चासावस्तीत्यभिप्रायः ॥ श्लो वा० उम्बे ० टी० प्रत्यक्षस्० १ । For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy