________________
का०पृ९९२, वि०पू०९९] न्यायमञ्जरीनन्थिमङ्गः
महासामान्यमन्ये विति' । ब्रह्मविदां हि सद्रूपतायाः सर्वत्राव्यभिचारात् सैव पारमार्थिकी प्रत्यक्षमाह्या न भेदाः, तेषामपारमार्थिकत्वात्, यथा घटादौ मृदूपतैव सत्यं न विकाराः, तेषामादावन्ते चासत्त्वेनासद्भिस्तुल्यत्वात् । तथा च श्रुतिः 'वाचारभ्भणं नामधेयं विकारो मृत्तिकेत्येव सत्यम्' इति [छादोग्य उप०६.१.४.] । मृद्रूपतापि यदाऽपगच्छति तदा सन्मात्रमनुग्लिखितविशेषमवतिष्ठत इति तदेव सन्मानं सत्यम् , न च भेदः प्रत्यक्षस्य विषयः, तस्येतरेतराभावरूपत्वेन प्रत्यक्षाविषयत्वात् तदुत्तरकालभाविनां तु विशेषग्राहिणां विकल्पानामप्रामाण्यात् । वाक्तत्त्वमपर इति । यथा हि ब्रह्मविदां सर्वत्र सद्रूपताया अव्यभिचारेण परमार्थसत्त्वा[48B]न्निर्विकल्पकग्राह्यत्वमभिमतं तथैव शाब्दैरपि सर्वत्र प्रत्यये शब्दरूपताया अनुगमात् तस्या एवासत्याकारोपग्रहरूपविवर्तरूपत्वाद् रूपादीनां परमार्थासत्त्वादि] वाक्तत्त्वं शब्दतत्त्वं सैव प्रत्यक्षविषयत्वेनोक्ता । तथाहि भेदानां तद्विवर्ततया तैरसत्यत्वं प्रतिपादितम् । यदाहुः
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ [वाक्य० १. १] यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिश्चित्राभिः प्रतिपद्यते ॥ तथेदममलं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रतीयते ॥ [ बृहदा ०भा०वा० ३.५. ४३-४४]
विजातीयपरावृत्तिविषया यदि कल्पनेति । अयं भावः-सजातीयविजातीयव्यावृत्तिरूपं हि स्वलक्षणम् , तन्नागृहीतायां सजातीयविजातीयव्यावृत्तौ प्रत्यक्षेण गृहीतं भवति । गृहीतं चेद् विजातीयव्यावृत्तिरपि सामान्यरूपतया भवदभिमता गृहीतैवेति कथं स्वलक्षणैकविषयं निर्विकल्पकम् ?
शबलं वस्तु निर्विकल्पकग्राह्यं ये मन्यन्ते तान् प्रत्याह-चित्रतापि पृथग्भूतैरिति । नित्यं तत्त्वानुपग्रहात् । 'गोगों[59A]त्वम्' इत्याद्यपि दर्शनात् । अथ तादात्म्येऽपि धर्मधर्मिणो बुद्धया निष्कृष्य पृथक्कृत्य अंशा धर्मा व्यपदिश्यन्ते 'गोगोत्वम्' इत्यादौ तदाह-अंशनिष्कर्षपक्षे विति । न ह्यसति भेदे निष्कर्षः कर्तुं शक्यतेत्यभिप्रायः । अथ मन्येत केनांशनिष्कर्षपक्षोऽभ्युपगत इति तदाह
१ महासामान्यभन्यैस्तु ...। प्रलो वा प्रत्यक्ष. ११४ । वेदान्तवादिनस्तु महासामान्य निर्विकल्पकस्य विषयमाहुः। उम्बेकटी०। २ तुलना-न ह्यन्यतः स्वार्थमव्यवंच्छिन्दत् प्रत्यक्ष परिच्छिनत्ति....। सिद्धिवि० पृ० १४७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org