________________
भट्टश्रीचक्रधरप्रणीतः [का०पृ०८४, वि०पृ०८९ न्मनि[46A] नानुभवस्तथापि जन्मान्तरानुभूतस्य' अदृष्टवशादनुस्मरणमिति तात्पर्यम् । अलक्ष्यमाणे वा स्वशिरश्छेदादावनुभवाभावाददृष्टस्य कारणता। ननु जाततैमिरिकस्यापि तिमिरमेव मिथ्याज्ञाने हेतुः । सत्यम्, तत्तु तिमिरं द्वित्वस्मरणद्वारेण जनकम् , तस्य स्मरणं चानुभूते भवति, न च जातमात्रस्येहजन्मन्यनुभवोऽस्ति । अथ तिमिरमेव जन्मान्तरानुभूतस्मरणहेतुः कस्मान्न कल्प्यते । न, दृष्टस्य हेतोर्जन्मान्तरानुभूतस्मरणसामर्थ्यकल्पनायामननुभूतरजतस्यापीहजन्मनि शुक्तिकायां सादृश्यजनितजन्मान्तरानुभूतरजतस्मरणे सति रजतज्ञानं स्यात् , न च दृश्यते । अतः अदृष्टमेव जन्मान्तरानुभूतस्मरणजनकत्वेन कारणं कल्प्यम् , यत्र कार्यं च दृश्यते न च तदनुगुणकारणं तत्र सर्वत्रादृष्टस्यैव कारणत्वात् , अग्नेरू ज्वलनादौ । नन्विदमत्र कारणमिदं चात्रेत्यत्र किं प्रमाणम् ? तदाह-नूनं नियमसिद्धयर्थमिति । यदि हि अजनकं प्रतिभासेत तदजनकत्वाविशेषाद् यत्किञ्चित् प्रतिभासेत; शुक्तिकायां घटोऽपि प्रतिभासेत, रजतवत् तस्याप्यजनकत्वादिति ।
स्मृत्यनुमानागमेति । स्मृत्यादीनां बाह्य करणव्यापारोपरमेऽप्युपलम्भात् , अकरणस्य चात्मनस्तज्जन्मनि बाह्यविष[46B] यज्ञान इव सामर्थ्यादर्शनात् करणं कल्प्यम् , तच्च मन इति ।
योगरूढिस्तु नसम्मतैवेति । या पङ्कजादिषु कैश्चिदभ्युपगता तस्या दूषणं स्वयमप्याह-यत्रापि हि द्वयं दृश्यत इत्यादिना । अव्ययीभावव्याख्यानमिति । अक्षमक्षं गतं प्रत्यक्षमिति वीप्सायामव्ययीभावः । 'प्रत्यक्षेण प्रत्यक्षादिति
१ जन्मान्तरागतं व्युत्पन्नसङ्केतं मनोऽस्ति बालानाम्...मनो०२४३। इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया । यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यते ॥१.१२३॥ वा० प० । भतीतभवनामार्थभावना वासनान्वयात् । सद्योजातोऽपि यद्योगादितिकर्तव्यतापटुः ॥१२१६॥ तत्त्वसं० । २ अग्नेरूर्वज्वलनं वायोश्च तिर्यकूपवनमणुमनसोश्चार्य कर्मेत्यदृष्टकारितानि । वै० सू० ५. २. १४.। विभुत्वं चात्मनो वझेरूद्धज्वलनाद् वायोस्तिर्यग्गमनादवगतम् । ते ह्यदृष्टकारिते।...यस्य कर्मणो गुरुत्वद्रवत्ववेगा न कारणं तस्यात्मविशेषगुणादुत्पादः, यथा पाणिकर्मणः परुषप्रयत्नात . ऊवज्वलनतिर्यकपवनादीनां कर्मणां गुरुत्वादयो न कारणमभावात्, तत्सत्कार्यविपरीतत्वाच्च । तस्मादेतेषामपि आत्म विशेषगुणादेवोत्पादो न्याय्यः । न्या. कं० प्र०२१३-२१५। ३ न्यायभा० १.१.१५। ४ यत्र योगार्थान्वितरूढयर्थावबोधः तत्र सर्वत्र योगरूढिः; यौगिकार्थबुद्धिरूपसहकारिलाभात् विशिष्टार्थोपस्थापकावं रूढेोगरूढित्वम् । न्या. सि० दी० पृ० ४८ । ५ पङ्कजादिपदानां योग एव इत्येके वदन्ति, रूढिः इत्यपरे वदन्ति,
रूढिः इति गौतमीयाः आहः । न्या. सि. दी० प्र० ४२ । ६ अक्षस्याऽक्षस्येति भाष्यमनुभाष्य तात्पर्यमाह-अयं च सूत्रविवक्षायामिति । अक्षमक्षं प्रति वर्तत इति विगृह्याव्ययीभावे कृते सर्वेन्द्रियावरोधो भवति । ननु यदीडशो विग्रहः कस्मात् पुनर्भाष्यकारेणाऽक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org