________________
का०पृ०८४, वि०पृ०८९]
न्यायमञ्जरोग्रन्थिभङ्गः
वद्भावेन प्राप्तानामिति । सोमप्रकृतित्वाद् एवं भूतानामव्य [ 45A]क्तयागानां श्येनादीनां प्रकृतिवद्भावात् षोडश ऋत्विजः प्राप्ता एव; तान् प्राप्ताननूय लोहितोष्णीषता तेषां विधीयत इति ।
संज्ञाकर्मोपदेशीति । संज्ञासंज्ञिसम्बन्धक्रिया संज्ञाकर्म' । गत्यन्तरमपि सम्भवतीति । यत्र वृद्धोक्तं वाक्यमुपलभ्य परः प्रवर्ततेऽन्यश्च तटस्थ एवं शब्दार्थे व्युत्पद्यते - अमुष्माच्छन्दादवगतादत्रायं प्रवृत्तः, तन्नूनमस्यायमर्थ इत्यादिप्रकारेण ।
एवमस्त्विति चेच्छान्तमिति । शान्तम् मा भूदेवममङ्गलमेतदित्यर्थः । तत्राप्यनेन न्यायेन शाब्दता न निवर्तत इति । तत्रापि यस्मादन्यं वृद्धं प्रत्युदीरिताद् वृद्धवाक्याद् यत्रार्थे तस्य व्युत्पत्तिर्ज्ञाता, तदर्थग्रहणकाले तस्य वाक्यस्य स्मरणात् । सम्बन्धस्त्रिप्रमाणक इति ।
शब्दवृद्धाभिधेयांस्तु प्रत्यक्षेणैव प[45B]श्यति । श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ॥ अन्यथानुपपत्त्या च वेत्ति शक्ति द्वयाश्रिताम् ।
अर्थापत्यावबुध्यन्ते सम्बन्धं त्रिप्रमाणकम् || इति || [ श्लो० वा० सम्बन्धाक्षेपपरिहार, १४०-४१]
५१
चेष्टया प्रवृत्तिनिवृत्तिलक्षणयाऽनुमानेनानुमानभूतया । प्रमाणत्रयावगम्यत्वेऽपि सम्बन्धस्यार्थापत्तेः साक्षाद् व्यापारादितरयोस्तदुपकारत्वेन 'अर्थापत्त्याऽवबुध्यन्ते' इत्युक्तम् ।
कर्तृकरणव्यतिरिक्तं ज्ञानजनकमिति । ज्ञानजन्मनि कारकत्रयव्यापारोपलम्भाच्छुक्तिकायाः कर्तृकरणरूपतानन्वयादवश्यं कर्मतया विषयत्वेनाऽऽलम्बनत्वेनान्ययो वाच्य इति ।
क्वचित् सदृशविज्ञानमिति । यथा मरीचिषु जलज्ञाने । कामशोकादयः पुरोऽवस्थितस्त्र्यादिदर्शने ।
कुदर्शनाभ्यास बौद्धादिदर्शनाभ्यास आत्मादौ नास्तिताज्ञाने । चक्षुषस्तिमिरं द्विचन्द्रादिज्ञाने । निद्रा स्वप्नज्ञाने । चिन्ता यमर्थ चिन्तयति तत्प्रत्यक्षतया पुरोऽवस्थितमिव गृह्णाति । धातूनां पित्तादीनां विकृतिः शर्करादेस्तिक्ततादिज्ञाने । ननु जाततैमिरिकस्येहजन्मनि घटादिगतस्य द्वित्वस्याऽननुभवात् स्मरणाभावाद् द्विचन्द्रादिज्ञानानुत्पाद इत्याशङ्क्याह- अलक्ष्यमाणे तद्धेताविति । इदमेवोत्तरश्लोकेन 'बालस्येन्दुद्वयज्ञानमस्ति नास्ति' इत्यादिना व्यनक्ति । यद्यपीहज१ संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः । वै० सू० २.१.१८-१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org