________________
भश्रीचक्रधरप्रणीतः [का००७९, वि०पू०८४ मतः शब्दाकारा एवामी सामान्यादयोऽर्था अध्यस्ताः प्रतिमासन्ते न पुनर्बहिः सन्ति । यथा रक्तः स्फटिकमणिरिति प्रतीतिः सति लाक्षासन्निधाने समुत्पपतेऽन्यथा नेति तद्वशाल्लाक्षारूपाध्यारोपः स्फटिके कल्प्यते । एवं शब्दवशात् समुत्पद्यमानानां सामान्यादिप्रत्ययानां शब्दाकारसामान्यादिरूपाध्यारोपोऽर्थे कल्प्यतामिति पर्यनुयुक्तैभवद्भिरिदमेवोत्तरं वक्तुं शक्यम् -- "सविकल्पके ज्ञाने शब्दरहितस्यार्थस्यावसासनम् , शब्दस्तु तत्र चक्षुरादिवदुपाय एव, न तु सोऽपि तत्र प्रतिभासतेऽतः प्रतिभासमानानां सामान्यादीनां कथमप्रतिभासमानशब्दाकारताकल्पना[44A] सम्भवति" इति तदिदानीमित्थं शब्दविशिष्टार्थप्रतिभासेऽङ्गीक्रियमाणे विघटते । कथम् ? अर्थवच्छब्दस्यापि यदि प्रतिभासोऽभ्युपगम्यते तदानीं शब्दस्याप्रतिभासमानत्वे यच्छब्दाकारत्वनिराकरणं सामान्यादीनां कृतं तन्नैव कर्तुं शक्यत इति । पुनरनेन मार्गेणावतरत् केन वार्यते शब्दाध्यास इति । एवं चेदं शब्दाध्यासपक्षावतरणं विश्वरूपटीकातो' व्यपदेश्यपदं व्याचक्षाणैः भट्टश्रीशशाङ्कधरपादैर्व्याख्यातम् । ग्रन्थकारस्त्वपवर्गाह्निके स्वाभिप्रायेण शब्दाध्यासस्वरूपं प्रपञ्चयिष्यति । शब्दाकारस्य सामान्यादेरर्थे न्यासः समारोपः शब्दाध्यासः ।
चयस्त्विषामिति । विभुर्हरिरम्बरात् खादवतरन्तं मुनि क्रमान्नारद इत्यनेन विशेषेणाबोधि बुद्धवान् । यः पूर्व दूरतया स्पष्टग्रहणाभावे सति त्विषां चयस्तेजसा पिण्ड इत्यवधारितः, पुनः किञ्चिन्निकटतया शरीरितया ज्ञाताकारम् , ततोऽपि नैकट्यादवयवविभागावबोधात् पुंस्त्वेन नितिम् , ततोऽप्यतिनैकट्यान्नारद इत्येवमबोधि । स एव विषयोऽवभासते अविशिष्ट एव भासत इत्यर्थः । निःसन्धिबन्धनस्य शुद्धपुरुषप्र[44B]त्ययप्रतिभास्यादविभक्तस्वरूपस्य ।
प्रैषानुवचनस्य वचनान्तरतः प्राप्तेरिति । 'मैत्रावरुणः प्रैष्यति चानु चाऽऽह' इति वचनान्तरेण यत् प्राप्तं प्रैषानुवचनं तदनूद्य दण्डित्वं विधीयते, यत् प्रैषानुवचनं मैत्रावरुणेनविजा कर्तव्यं तद् दण्डिना यजमानतः प्राप्तदण्डहस्तेन कर्तव्यम् । पशुयागेऽध्वयुणा अग्नये छागस्य वपाया मेदसः प्रेष्येति, एवं प्रेषितो मैत्रावरुणो यत् 'होतर्यज' इति प्रतिप्रेषणं करोति तत् प्रैषानुवचनम् , तदेव 'श्रेष्यति चानु चाऽऽह' इति अत्र प्रेष्यतीत्यनेन विहितम्, न केवलमेवंभूतं प्रैषानुवचनमसौ करोति इति यावदनु चाऽऽह अन्वाह च अनुवाक्यामप्यसावेव पठतीत्यर्थः । प्रकृति
१ धर्मोत्तरप्रदीपे (पृ.१७५) विश्वरूपटीका उद्धृता सा न्यायभाष्यटीका इति प्रदीपकारदुर्वेकमित्रेण तत्र स्पष्टीकृतम् । २ शिशुपालवधे १.३ । ३ द्र० शा०भा० ३.७.२१. । जै०न्या०मा० ३.७.२१. ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org