________________
का०पृ०८६, वि०पृ०९२ ]
न्यायमज्जरी ग्रन्थिभङ्गः
दर्शनात्' इति नापपाठ: एतयोरव्ययीभावेऽपि सम्भवात् । 'अपञ्चम्याः' इति पञ्चम्या अमादेशप्रतिषेधात्, 'तृतीयासप्तम्योर्बहुलम्' इति [ पाणिनि २ ४ ८४] च तृतीयासप्तम्योर्बहुलवचनात् । अतः 'प्रत्यक्षस्य प्रत्यक्षयोः' इत्यादि पठनीयम् । ननु च प्रतिगतमक्षं प्रत्यक्षम् ' अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति [वार्तिक १. ४. ७९] तत्पुरुषाश्रयणात् परवल्लिङ्गतायां प्रत्यक्षो बोध इत्यादि न स्यात् । उच्यते--‘द्विगुप्राप्तापन्नालंगतिसमासेषु परवल्लिङ्गतानिषेधादभिधेयलिङ्गतैव भवति, प्राप्तो जीविकां प्राप्तजीविक इतिवत् ।
५३
अभिलापसंसर्गेति । अभिलप्यतेऽने[47A] न ह्यभिलापः शब्दस्तेन संसर्गः सम्बन्धस्तयोग्यः सामान्याकारः प्रतिभासतेऽस्यामित्यभिलापसं सर्गयोग्यप्रतिभासा । बालों हि यदा स्तनं पूर्वोपलब्धस्तनैक्येन न गृह्णाति न तदा रोदनादिपरिहारेण तत्र मुखमर्पयति, अतः शब्दसंसर्गाभावेऽपि तद्योग्यत्वात् प्रतिभास्यस्य तद्ग्राहिज्ञानस्य कल्पनात्वसिद्धये योग्यग्रहणम् । तमन्तरेणापि भावात्, आभोगादाविति शेषः; आभोगादौ हि इन्द्रियसम्बन्धं विनापि नानार्थकल्पना जायन्ते ।
3
यः प्रागजनक इति । योऽर्थः प्रथमेन्द्रियसन्निकर्षकाले सविकल्पकस्य न
स्याsक्षस्येति विगृह्यत इत्यत आह- अन्यथा तु वस्तुनिर्देश इति । अर्थमात्रमनेन प्रतिपाद्यते न पुनः समास इत्यर्थः । न्या०वा०ता०टी० पृ० १०१ । १ 'नाव्ययीभावात् अतः अम् तु अपsaम्याः' पाणिनि २. ४. ८३ । २ 'द्विगुप्राप्तापन्नालं पूर्व गतिसमासेषु प्रतिषेधो वाच्यः' वार्तिक २.४.२६। ३ अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना । न्या०बि० १.५ । तत्र चित् प्रतीतिरभिलापसंसृष्टाभासा भवति । यथा व्युत्पन्नसङ्केतस्य घटार्थकल्पना घटशब्दसंसृष्टाभासा भवति । काचित्तु अभिलापेनासंसृष्टापि अभिलापसंसर्गयोग्याभासा भवति । यथा बालकस्यान्युत्पन्नसङ्केतस्य कल्पना ||... बालोऽपि हि यावद् दृश्यमानं स्तनं ' स एवायम्' इति पूर्वदृष्टत्वेन न प्रत्यवमृशति तावन्नोपरतरुदितो मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकीकुर्वद् विज्ञानमसंनिहितविषयम्, पूर्वदृष्टस्यासंनिहितत्वात् । असंनिहितविषयं चार्थनिरपेक्षम् । अनपेक्ष च प्रतिभासनियम हेतोरभावादनियत प्रतिभासम् । तादृशं चाभिलापसंसर्गयोग्यम् । न्या०बि०टी० १. ५. । तुलना — उत्पन्नमात्रस्य हि बालकस्य स्तनं दृष्ट्वा प्राग्भवी प्रस्तज्जातीयापेक्षितानुभवजनितः संस्कार आविरस्ति । ततश्च स्मरणम्, ततोऽपेक्षितोपायतानुमानम्, ततः प्रवृत्तिः, ततः तस्याः सामर्थ्यम् । न्या०वा०ता०टी० पृ० १३ । ४ चित्तस्याभोगो मनस्कारः पूर्वानुभूतादिसमन्वाहारस्वरूपः । अभि० दी० पृ० ७० । मनस्कारश्चेतस आभोगः । आभुजनमाभोगः । आलम्बने येन चित्तमभिमुखीक्रियते । स पुनरालम्बने चित्तधारणकर्मा । चित्तधारण पुनस्तत्र आलम्बने पुनः पुनश्चित्तस्याssवर्जनम् । त्रिशिकावि० भा० ३ । मनस्कारः कतमः ? चेतस आभोगः । आलम्बनचित्तधारणकर्मकः । अभि० समु० पृ० ६ । ५ प्र० वि० पृ० ४२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org