________________
का०पू०७२, वि००७६ ]
न्यायमञ्जरी ग्रन्थिभङ्गः
बीजैरतद्रूपैर्भिन्नरूपैश्च यवबीजैर्जनिता इति । परः स्वाभिप्रायमाह - तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुज मिति' ।
एकमेवेदमिति । हर्षविषादादिरनेकाकारो विवर्तः परिणामो यस्य । न स्वभावभेदेन संशयवदिति । यथा संशयरूपत्वेनोभयको टिस्पृश्यस्वभावेनानुभयकोटिस्पृशो ज्ञानान्तराद विशिष्यते 'संशयात्मकमेतज्ज्ञानं न व्यवसायात्मकम्' इति तथा न सुखज्ञानम्, अपि तु विषयकृत एव तस्य भेद: 'सुखस्य ज्ञानम्' इति ।
1
२
तच्च न स्वच्छमिति । यदि हि विषयानुरागरहितस्य बोघमात्रस्यानुभवनं स्यात् तदाऽऽत्मीयेन सुखात्मनापि स्वरूपेण तस्यानुभवो युज्येतेत्यभिप्रायः । अन्वयव्यतिरेकाभ्यां चेति । अयं भावः । सुखादयो ग्राह्याः, न च ग्रा[41B] ह्यरूपमेव ग्राहम् । यदि हि ग्राह्यरूपमेव ग्राहकं स्यात् तदा घटो मया ज्ञातोऽधुना पटं जानामीत्यादौ ग्राह्यरूपानुवृत्तिवद् ग्राहकरूपानुवृत्तिरपि नोपलभ्येत, उपलभ्यते च बोधरूपोऽनुवर्तमानो ग्राहकाकारः, ततोऽवसीयते ग्राह्येणोपरक्तमेव ज्ञानं न ग्राह्यरूपमिति । सत्यपि घटे कदाचिदभावादसत्यपि च तस्मिन् पटादौ भावात् ततो व्यावृत्तरूपादन्यैव विलक्षणबोधरूपता प्रतीयत इति । अन्यदाऽदृष्टत्वादिति । यदि सुखमेव ज्ञानं स्यान्न सुखस्य ज्ञानं तदा तदनन्तरभाविनि ज्ञाने बोधरूपतावत् सुखरूपताऽप्यनुवर्तेत । 'अन्यदा वा दृष्टत्वात् ' - प्राङ्नीत्या यदा ग्राह्याद् भिन्नं बोधस्वभावं ज्ञानमुपलब्धं तद्वदत्रापि भवतु, अस्यापि ग्राह्यत्वात् ।
योग्यतालक्षण एवेति । नियतसुखादिकार्यगम्यः कश्चित् सम्बन्धविशेषो योग्यताख्यः ।
विलक्षणा हि दृश्यन्त इति । समवायिकारणानां परमाणूनामग्निसंयोगस्य चासमवायिकार्[42A]णस्याभेदेऽपि रूपत्वरसत्वादिनिमित्तकारणभेदात् पाकजानां रूपरसादीनां वैलक्षण्यं भेदः ।
४७
१ तत् तस्मादिमं न्यायमुल्लङ्घ्य विज्ञानेन सहाभिन्न एको हेतुरिन्द्रियविषयमनस्कारसामग्रीलक्षणस्तस्माज्जातं सुखादिकं कस्मादज्ञानम् ? द्वयमपि ज्ञानं स्यान्न वा किञ्चित् प्र०वा० मनो० २.२५१ । ..... सिद्धा ज्ञानस्वभावा सुखादयः । तत्रसं० पं० पृ०३२७ । २ बाह्येन्द्रियैर गृहीत सुखादिप्रायान्तरभावाच्चान्तःकरणम् । प्रशस्त० पृ०४११ । तथा सुखादयः करणपरिच्छेयाः ग्राह्यत्वाद् रूपादिवत् । व्यो० पृ०४२५ । अर्थप्रवणस्वभावाच्च संवेदनादत रूपस्य सुखादेरध्यक्षेण भेदग्राहिणा बाधितविषयत्वात् अभेदसाधनस्य । सुखादौ ज्ञानप्रतिमासानुवृत्त्यभावेन च तद्विशेषानुपपत्तेः सर्वथा तदभिन्नहेतुजत्वस्यासिद्धेः । न्यायकलानिधि० पृ०१६७ | 'सुखं ज्ञानात्मकम्' इति बौद्धमतस्य निराकरणमनेकेन कृतमस्ति । द्रष्टव्यम् – अष्टस० पृ० ७८; स्या रत्ना० पृ०१७८, न्यायकुमु० पृ०१२९, तात्पर्य० पृ०१२३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org