________________
भट्टश्रीचक्रधरप्रणीतः
[ का०पृ०७२, वि० पृ०७६
क्वचित् तु सङ्कल्पोऽपीति । यत्र भाविनं रूयादिसङ्गमं चित्ते सङ्कल्पयति । आनन्दस्वभावमपि विषयं व्यभिचरत्येवेति । सुखजनकमन्त्र विषयत्वेन विवक्षितम्, सुखस्य तदालम्बनत्वेनोत्पादात् ।
४८
I
प्रत्यक्षं प्रत्यक्षमित्येतावन्मात्रमभिधेयमिति । सामान्यलक्षणापेक्षित्वाद् विशेषलक्षणस्य । अक्षं प्रति गतं जन्यत्वेन प्रत्यक्षम् । तत्र यतः प्रमाणात् फलमुत्पद्यते तत् प्रमाणं प्रत्यक्षम् । तच्च फलं ज्ञानमव्यभिचारि व्यवसायात्मकं च भविष्यति तथाविधफलजनकस्यैव प्रमाणत्वस्य सामान्यलक्षणे प्रतिपादितत्वात् ।
शब्दकर्मतापन्नं ज्ञानमिति । 'रूपज्ञानम्' इत्यादेः शब्दस्य कर्मतामभिधेयतामापन्नम् ।
नन्दिकुण्डमिति । तीर्थविशेषाख्या ।
यथा दण्डीति शुक्ल इति । केवलपुरुषपटप्रत्ययापेक्षयाऽत्र सातिशयत्वम्। [42B]।
ननु वाचकः स उच्यते यो वाचकत्वेन गृहीतः, सङ्केतकालभावी च वाचकवेन गृहीतः, स चेदानीं नास्तीत्याह - ननु सङ्केतावगमसमय इति ।
'संज्ञित्वं केवलं परम्' इति ।
“यथा रूपादयो भिन्नाः प्राक्छब्दात् स्वात्मनैव तु ।
गम्यन्ते तद्वदेवेदं संज्ञित्वं केवलं परम् ॥” इति परिपूर्णं वार्त्तिकम् [ श्लो० वा० प्रत्यक्ष ० १७५] । यद्वद्रूपादयः सम्बन्धग्रहणात् पूर्वं विविक्ततया शब्द विविक्तेन रूपेणोपलभ्यन्ते तद्वद् गोत्वाद्यपि, सविकल्पकज्ञाने केवलं संज्ञित्वं प्रतिभासत इति वार्तिकार्थः । अनेन तु " संज्ञित्वमिति वदता 'वाचकविशिष्टवाच्यप्रतिभासः सविक
१ भयं तु तेषामाशयः रूपादिविषयग्रहणाभिमुखं हि तदक्षजं ज्ञानं प्रमाणं वा फलं वोच्यते; यदा तु तदेव शब्देनोच्यते 'रूपज्ञानम्, रसज्ञानम्' इति तदा रूपादिज्ञानविषयग्रहण व्यापारलभ्यां प्रमाणतामपहाय शब्दकर्मतापत्तिकृतां प्रमेयतामेवावलम्बत इति न तस्यां दशायां तत्प्रमाणमिति । न्या० मं(का० ) पृ०८२, (वि०) पृ०८७ । यावदर्थ वै नामधेयशब्दास्तैरर्थं सम्प्रत्ययः, अर्थ सम्प्रत्ययाश्च व्यवहारः । तत्रेदमिन्द्रियार्थसन्निकर्षादुत्पन्नमर्थज्ञानं 'रूपम्' इति वा, 'रसः' इत्येवं वा भवति, रूपरसशब्दाश्च विषयनामधेयम् तेन व्यपदिश्यते ज्ञानं--रूपमिति जानीते, रस इति जानीते, नामधेयशब्देन व्यपदिश्यमानं सत् शाब्दं प्रसज्यते । अत आह--अव्यपदेश्यम् । न्यायभा० १.१.४. न्यायभाष्यकारः मतस्यास्य पुरस्कर्ता इति म०म० फणिभूषणा अपि मन्यन्ते ।
Jain Education International
For Private & Personal Use Only
F
www.jainelibrary.org