________________
भट्टश्रीचक्रधरप्रणीतः का०पृ०६६, वि०पृ०७० प्रतीतत्वादुपलब्धत्वात् फलमेव सत् प्रमाणमिति भण्यते । इदमेव हि दात्रादेः करणस्य करणत्वं यत् क्रियायां व्यापृतत्वम् । नन्वर्थपरिच्छेदात्मकत्वाज्ज्ञानस्य कथं स्वात्मन्येव व्यापृतत्वोक्तिः ? अस्त्येतत् , किन्तु यदा अर्थाकारानुकारि ज्ञानमुत्पद्यते तदैवमुपचर्यते । यथा पितृसदृशमपत्यमुपलभ्य पितुरनेन रूपं गृहीतमिति लोको व्यपदिशति, अथ च नानेन किञ्चिद्रूपं गृहीतम् ; एवं नियतार्थाकारं ज्ञानमुपलभ्यार्थग्रहणे व्याप[40B]तत्वमर्थोऽनेन गृहीत इत्येवं कल्पयति' । यदाह
यथा फलस्य हेतूनां सदृशात्मतयोद्भवात् । हेतुरूपग्रहो लोकेऽक्रियावत्त्वेऽपि दृश्यते ॥ इति ॥ [प्र० वा० २.३०९]
कृतिः करणमिति । यथा भावे सिद्धयतोऽपि करणशब्दस्य, न कारकस्याधिकारे ग्रहणमिति भावः ।
विषयाधिगमाभिमानः इति । अधिगतोऽयं मया घट इत्येवरूपोऽत्राभिमानो विवक्षितः ।
यदाभासं प्रमेयं तदिति । आभासत इत्याभासो ग्राह्याकारः । य आभासो यस्मिंस्तद् यदाभासम् ; यस्तत्र ज्ञाने ग्राह्याकारः प्रतिभाति तत् प्रमेयमित्यर्थः ।
इन्द्रियगत्यनुमानमप्यस्तीति । न हि गोलकस्थस्येन्द्रियस्यासत्यां गतौ बाह्येन विषयेण सन्निकर्ष उपपद्यत इति सन्निकर्षात् तद्गत्यनुमानम् ।
घ्राणादीन्द्रियधर्मवैलक्षण्यादिति । नित्यत्वानियतविषयत्वादिना वैलक्षण्यम् ।
तदतद्रूपिणो भावा इति । तदपिणस्तद्रूपवन्तः शाल्यकुराः, अतदूपिणश्चातद्रूपवन्तो यवाकुराः[41A] । शाल्यकुरा यवाङ्कुराश्च कथमेकरूपा अनेकरूपाश्चेत्यर्थः । एवं गूढाशयेन पृष्टे स्पष्टमुत्तरमाह-तदतद्रूपहेतुजाः । तद्रूपैरेकरूपैः शालि
१ यथा लोकेऽपि हेतूनां सदृशात्मतया सदृशरूपतया उद्भवात् फलस्या क्रियावस्वेऽपि हेतुरूपग्रहणव्यापाराभावेऽपि हेतुरूपग्रहः कथ्यते पितू रूपं गृहीतं सुतेनेत्यादि । प्र०या०मनो० पृ०२११ । तद्यथा पितृसदृशः पुत्र उत्पत्तिमान् पितृरूपं गृह्णातीति व्यपदिश्यते लोके विनापि ग्रहणव्यापारेण, तथा ज्ञानेऽपि व्यपदेश इति को विरोधः । प्र०वा.भा. पृ०३४४ । २ प्र०समु. १.१०। आह चेत्यादिना प्रमेयादिव्यवस्थां तां दर्शयति य आभा. सोऽस्येति विग्रहः । स्वांशप्रमाणत्व साधनात् अत्र विषयाभासो ग्राह्यः । प्रमेयं तदिति स विषयाभासः प्रमेयः। प्रमाणफलते पुनः प्राहकाकारसंवित्ती (पृ०३५A)इति । विशाला० । ३ प्र०वा.२.२५१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org