________________
का०पृ० ६६, वि०पृ०७०] न्यायमञ्जरीग्रन्थिभङ्गः तेन धूमपरामर्शस्मरणस्य विनश्यत्ता, ततो विनश्यदवस्थपरामर्शसहितात् सुखसाधन त्वस्मरणादग्नौ तज्जातीयत्वपरामर्शः, तस्माद् विनश्यदवस्थाच्च सुखसाघनत्वानुस्मरणात् सुखसाधनत्वनिश्चयो भविष्यतीति आशङ्कयाह-न च धृमलिङ्गानुमितदहनज्ञानानन्तरमिति ।
किमनेन शिखण्डिनेति । अकिञ्चित्करत्वं परामर्शस्याह । यथा भीष्मवधः किरीटिनैव सम्पादितो मध्ये त्वकिञ्चित्करः शिखण्डी' कृत इति ।
पुनःसम्बन्धग्रहणापेक्षणादनवस्थेति । तज्जातीयत्वस्य लिङ्गस्य तेन सह गृहीत. सम्बन्धस्य तद्गमकत्वम् । न च सुखसाधनत्वस्यान्यथा ग्रहणं सम्भवतीति पुनस्तस्मादेव लिङ्गात् तदवगमे ताव[40A]त्सम्बन्धग्रहणापेक्षित्वं यावज्जातमात्रस्य सुखहेतुत्वावगमः । तत्रापि जन्मान्तरे लिङ्गलिङ्गिनोरविनाभावग्रहणे जातमात्रस्यापि तस्मादेव लिङ्गादवगतिः, जन्मान्तरेऽप्येवमेवेत्यनवस्था ।
न खल्वतीन्द्रिया शक्तिरिति । ननु यद्यतीन्द्रिया नाभ्युपगम्यते शक्तिः कथं तदृष्टस्य शक्तित्वमिति । तत्राह-न धर्मादेः शक्तित्वादतीन्द्रियत्वमिति ।
इत्थं च प्रमाणफले न भिन्नाधिकरणे भविष्यत इति । अनेन लोकप्रसिद्वयानुगुण्यमस्य पक्षस्य दर्शयति । लोके हि परशुनिपातस्य करणस्य छिदेश्च फलस्यैकवृक्षगतत्वेन दर्शनात् , इहापि तत्रैव ज्ञाने करणत्वं फलत्वं चेति । सव्यापारमतीतत्वादिति । नियतार्थाधिगमे सव्यापारस्य नियतार्थपरिच्छेदाख्यव्यापारवतः
१ शिखण्डी-स्वयैवरे वृतेन भीष्मेणापाकृता काचिद् अम्बानाम्नी राजकन्या तपसा पुरुषत्वं प्राप्ता । सैव शिखण्डीति संज्ञया व्यवजहे । स च स्त्रीपूर्वत्वान्निन्दास्पदम् । ततो भारते युद्धे तं पुरस्कृत्यार्जुनो भीष्मं जघान । सोऽपि च शिखण्डी पश्चादश्वत्थाम्ना हतः । २ न तावद मीमांसकवदतीन्द्रिया शक्तिरस्माभिरभ्युपेयते । न्यायवान्ता०टी० पृ०१०३ । ३ ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम् । न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियत इत्यत आह "अविशिष्टः” इति । तस्वै० १.७ । तदेव च प्रत्यक्षं ज्ञानं प्रमाण फलम् । न्या०बि० १.१९ । भिन्नप्रमाणफलवादिनं प्रति बौद्धेनोक्तम्-यदि प्रमाणफलयोर्भेदोऽभ्युपगम्यते तदा भिन्नविषयत्वं स्यात् प्रमाणफलयोः । न चैतद् युक्तम् । न हि परश्वादिके छेदने खदिरप्राप्ते सति पलाशे छेदो भवति । तत्त्वसं०६० पृ०३९९ । अत्र बाह्यानामिव प्रमाणात् फलमर्थान्तरभूतं नास्ति । प्रमाणसमु०वृ. ८। ४ प्रमाणसमु०१.९ । उद्धृतेय पङ्क्तिः प्रमाणवार्तिकालङ्कारे (पृ. ३४९) सन्मतिवृत्त्यां च (पृ. ५२५) तुलना-प्र०वा. २.३०१-३१९: तत्त्वसं०का० १३४४, न्यायबि० १.१८-१९, साङ्कख्यकारिकायुक्तिदीपिका०का०५ (पृ०३५); "उभयत्र तदेव ज्ञानं फलम्, अधिगमरूपत्वात् । सव्यापारवख्यातेः प्रमाणत्वम्” न्यायप्रवे०पृ०७; "तस्मिन्नधिगमरूपे फळे सव्यापारप्रतीततामुपादाय प्रमाणोपचारः" तत्त्वार्थरा० पृ०५६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org