________________
॥ द्वितीयम् आह्निकम् ॥ घोरे जगज्जलनिधौ भवतो ययाऽमी मज्जन्ति न स्मृतिपथप्रतिपन्नयाऽपि । सा काऽप्यचिन्त्यचरितस्य विचित्ररूपा शक्तिर्जयत्युडुपखण्डभृतो भवस्य॥ प्रज्ञोन्मेषपटु प्रपञ्चय वचो बौद्ध ! त्वमप्युद्भटाश्चार्वाक ! स्वविकल्पजालजटिलाः स्वैरं गिर[:] स्फारय । रे मीमांसक ! साङ्ख्य ! जैन ! भवतां यत् सम्मतं ब्रूहि तत्
स्वातन्त्र्यान्मम रोचते न हि न हि त्र्यक्षाहतेऽन्यः प्रभुः ।। ॐ नमः शिवाय । अतथाविधस्वरूपस्येति । संशयविपर्ययात्मकस्येत्यर्थः । अव्याप्तिश्च तदवस्थैवेति । संशयादेस्तथाविधफलजनकत्वेऽप्यप्रामाण्यप्रसक्तेः ।
अत्राचार्यास्तावदिति । वक्ष्यमाणव्याख्यातृमतापेक्षया तावच्छब्दप्रयोगः । इह च सर्वत्राचार्यशब्देन उद्द्योतकरविवृतिकृतो रुचिकारप्रभृतयो विवक्षिताः, व्याख्यातशब्देन च भाष्यविवरणकृतः प्रवरप्रभृतय इति । यदा ज्ञानं प्रवृत्तिरिति । भाष्यकृता हि "अक्षस्याक्षस्य प्रतिविषयं या वृत्तिः सा प्रत्यक्षम्" [न्या० भा० १. १. ३] इत्यभिधाय "वृत्तिस्तु सन्निकर्षों ज्ञानं वा" [न्या. भा० १. १. ३] इत्युक्तम् , "यदा ज्ञानं वृत्तिः” न्या० भा० १. १. ३] इत्याद्यभिहि[39B]तम् । इन्द्रियस्य हि विषयं प्रति वृत्तिापारः, कदाचित् तेन सन्निकर्षोऽथवा तद्विषयज्ञानजननमिति ।
स्मृत्या च तस्य विनश्यत्ता, स्मृतेर्ज्ञानरूपत्वाज्ज्ञानस्य च ज्ञानान्तरविरोधित्वात् ।
उपलभ्यानुवादेनेति । स्मरणानन्तरं परामर्शानभ्युपगमे धूमज्ञानस्य विनष्टत्वात् स धूमोऽग्निमानित्युपलब्धधूमानुवादेन प्रतीतिः स्यात् नत्वयं धूमोऽग्निमानित्युपलभ्यमानधूमानुवादेनेत्यर्थः । यदा धूम एवाग्निमत्तया साध्यते तदैवम् , यदा तु पर्वतस्तदापि स धूमवान् प्रदेशोऽग्निमानिति स्यान्न त्वयमिति ।
ननु वह्विज्ञानानन्तरं धूमपरामर्शस्मरणम्, ततोऽग्नौ सुखसाधनत्वस्मरणम् ,
१ कस्तावदभिप्रेतः जयन्तभहस्य 'भाचार्याः'इतिपदेन । प्रश्नोऽयमने कैश्चर्चितः । चौखम्बाप्रकाशितन्यायमञ्जरीसम्पादक-म०म०गङ्गाधरशास्त्रिमतेन 'आचार्य'पदं तात्पर्यटीकाकारपाचस्पतिमिश्राणां द्योतकम् (न्याम्म पृ०६२टिप्पणी)। तत्पदेन जयन्तभट्टस्य बुद्धिस्थाः व्योमशिवाचार्या इति डाक्टर-पं०महेन्द्रकुमारेण प्रमेयकमलमार्तण्डस्य प्रस्तावनायां(पृ.१८) सूचितम् । तत्पदद्वारा जयन्तभट्टेन स्वगुरुपरम्परापन्नः कोऽपि पूर्वाचार्यो निर्दिष्टः इति म०म० पं०श्रीफणिभूषणाः (न्यायदर्शन पृ०१०७) मन्यन्ते । उपकृता वयं चक्रधरेणात्र संदर्भ विशिष्टवार्ताप्रदानेन। २ रुचिटीकातो विस्तृतमुद्धरणं धर्मोत्तरप्रदीपे (पृ.१७५) उपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org