________________
का०पृ०६०,वि०६४] न्यायमञ्जरीग्रन्थिभङ्गः
आप्तग्रहणं सूत्र' इति[38A] तत्र ह्युपदेश इत्युक्ते लक्षणम विनिश्चितं स्यात् । न ह्युपदेशमात्रस्याव्यभिचारादिविशिष्टप्रमाजनकत्वं सम्भवतीति कथं तस्यैवंरूपता निश्चीयेतेत्यविनिश्चितत्वमायातं लक्षणस्य, आप्तग्रहणं तु तद्विनिश्चयाय कृतम् , अस्त्याप्त सम्बन्ध्युपदेश एवरूप इत्येवमर्थम् , न लक्षणायेति । चार्वाकधूर्तस्त्विति उद्भटः, स हि लोकायतसूत्रेषु विवृतिं कुर्वन् 'अथातस्तत्त्वं व्याख्यास्यामः' 'पृथिव्यापस्तेजोवायुरिति' सूत्रद्वयं यथाश्रतार्थत्यागेनान्यथा वर्णयामास । प्रथमसूत्रे तत्वपदेन प्रमाणप्रमेयसङ्ख्यालक्षणनियमाशक्यकरणीयतामाह, द्वितीयसूत्रमपि प्रमेयानियमप्रतिपादकं तेन व्याख्यातम् । तत्र हि 'पृथिव्यापस्तेनोवायुरिति' य इतिशब्दः स एवंप्रायप्रमेयान्तरोपलक्षणत्वेन तस्याभिमतः ।
न हि तत्करस्थं तत्रैवेति । न हि चक्षुः स्वगोलक एव प्रतीति जनयेदित्यभिप्रायः । व्यापित्वादकुशलमिन्द्रियमिति । अस्यार्थः-न हि त्वगूगतमेवेन्द्रिय तत्रैव त्वचि प्रतीतिमादधाति इति ब्रूमो येन चक्षुषि तथा अदर्शनादयुक्ततोच्येत, किन्त्वन्तर्गतं व्यापि यदिन्द्रियं तद् बहिस्त्व[38B] गगतस्य वक्राङ्गुलित्वादेः क्रियाविशेषावगमं जनयद् ग्राहकम् । नन्वन्तर्गतस्य त्वगिन्द्रियस्य ग्राहकत्वं क्व दृष्टमित्याहआनाभेस्तुहिन जलमिति । ननु द्रव्यान्तरेण संयोगोऽङ्गुलीनामन्तस्त्वगिन्द्रियेण गृह्यता नाम अन्तःप्रविष्टेनेवोदकेन, विरलाङ्गुलित्वं तु संयोगाभावः कथं गृह्यतेत्याह-संयोगबुद्धिश्चेति । यथा संयुक्ता अमुल्य इमा इति चाक्षुषी बुद्धिरेवं विरला अमुल्य इति, चक्षुष एव तत्रापि व्यापाराविशेषात् । एवं सन्तमसे यथा अङ्गुलिसंयोगग्राहि त्वगिन्द्रियं तथा तत्संयोगाभावरूपविरलताग्राह्यपि तदेव भविष्यतीत्यर्थः । माकुञ्चितत्वस्य तर्हि वक्रत्वापरपर्यायस्य कथं तेन ग्रहणमिति । तत्राप्याह-क्रियाविशेषग्रहणादिति । तस्मात् त्वगिन्द्रियादेव क्रियाविशेषस्याङ्गुलिगतस्याकुञ्चनाख्यस्य कर्मविशेषस्य विशेषणभूतस्यावगमः । आकुञ्चिता अमुल्य इति विशेष्यज्ञानं यत् तत् तज्जमेव । यथा चक्षुषा चैत्रगतं चलनमुपलभ्य चलत्ययं चैत्र इति विशेष्यज्ञानं चाक्षुषमेवमिदमपीति सिद्धम् ।
भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते [39A]
न्यायमञ्जरीग्रन्थिभङ्गे प्रथममाह्निकम् ॥ १ आप्तोपदेशः शब्दः न्या०सू०१.१.७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org