________________
R
भट्टश्रीचक्रधरप्रणीतः [का०पृ०५८, वि००६२ दाऽनुपलम्भाऽभावात् कथमविशेष इत्याह-सर्वदाऽनुपलम्भोऽपीति । एतदुक्तं भवतिकिल भव[37A] तैवमुच्यते-'सर्वदा यो नोपलभ्यते तस्याप्रतीतिमात्रेण नास्तित्वनिश्चयो भवति, मृदन्तरितवारिणश्च कदाचिदुपलम्भेन सर्वदाऽनुपलम्भासिद्धेः तस्याप्रतीतिमात्रान्नास्तित्वनिश्चयः कथं सिध्येदित्यतः सर्वदाऽनुपलम्भस्तस्य नास्तीति तस्य न नास्तितानिश्चयः' इति, तदयुक्तम् , अनेन क्रमेण पिशाचस्यापि नास्तितानिश्चयप्रसक्तेरिति । भवत्विति चेत् । तन्नेत्याह-आगमाद् युक्तितश्चापीति । आगमादवगतो नियतशरीरावच्छिन्नो यः पिशाचस्तेनावश्यमदृश्येन नियते क्वचिद् देशे भाव्यम् । अयमपि च विवादास्पदं देशो नियतदेश एव, अत्रापि पक्षे तस्यावस्थितिः सम्भाव्यत इति सम्भावनायुक्तिः ।
अनुपलब्धे पुनरनुपलब्धिरेवेति एवमस्याष्टीकाया अवतरणम्-सतोपि घटादेरनुपलब्धिदर्शनात् कथमीश्वरादेरनुपलब्धिमात्रान्नास्तितानिश्चयः, अतः संदेह एव युक्तः । न च 'इह घटो नास्ति' इतिवदुपलब्धि[ल]क्षणप्राप्तत्वं तस्य, येन नास्तितानिश्चयः स्यात् , तस्मान्नास्तितासंदेह एव तस्य प्राप्त इत्याशङ्कयाह-'उपलब्धिविषये ह्यनुपलब्धिः कारणान्तरमपेक्षते, अनुपलब्धे पुनरनुपलब्धिरेवानु[37B]पलब्धिः' इति । अस्यार्थः । सतोऽपि घटस्यानुपलब्धिदर्शनादुपलब्धघटादिविषयाऽनुपलब्धि स्तितानिचये कारणान्तरमुपलब्धिलक्षणप्राप्तत्वमपेक्षते, अनुपलब्धे पुनरीश्वरादौ याऽनुपलब्धिः सैवानुपलब्धिः, सैव नास्तिताव्यवहारसाधनी, न तत्र दृश्यत्वादेः कारणान्तरस्यापेक्षोपयुज्यत इति यावत् । ननु यदि सर्वदाऽनुपलम्भादपि न नास्तितानिश्चयः पिशाचादेस्तहिं खपुष्पादेरपि न प्राप्नोतीत्याशङ्क्याह-खपुष्पादेस्त्विति । नानुपलब्धिमानं केवलं तत्र व्याप्रियत इत्यर्थः ।
- उपेक्षितश्च भाष्यार्थ इति । 'अभावोऽपि प्रमाणाभावो नास्तीत्यस्यासन्नि. कृष्टस्यार्थस्य' इति [शाबरभा० १.१.५] भाष्यस्याभावात्मकप्रमाणप्रमेयप्रतिपादकत्वात् ।
स हि वस्त्वन्तरोपाधिरिति । यदा स्वकारण एवानुत्पत्तिस्तदा प्रागभावः, यदा तु स्वकारणादन्यत्रानुत्पत्तिः तदेतरेतराभावः, 'इह देशे काले वा इदं नास्ति' इत्यपेक्षाऽभावः । स्वकारणाद्धि वस्त्वन्तरमुपाधिरवच्छेदकमितरस्माद् यस्य ।
आख्यायि 'खार्या खलु द्रोणः सम्भवति' इति । आख्यायि आख्यातं केनचित् । अत आगमात् सम्बन्धग्रहणमत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org