________________
का पृ०५८, वि०पृ०६२] न्यायमञ्जरीप्रन्थिभङ्गः
प्रतिबन्ध इवेति । प्रतिबन्धो गम्यस्य गमकायत्तता । क्रियया कर्वस्थयेति । 'देवदत्तेन गम्योऽयं प्रामः' इत्यादौ । 'कुशूलभेत्ताऽयं चैत्रः' इत्यादौ तु कर्मस्थया ।
यैस्तु मीमांसकैः सद्भिरिति प्राभाकरान् निर्दिशति । से हि ज्ञान च सालम्बनमिच्छन्ति, शब्दं च बाह्यार्थविषयम् , अथ च नास्तीति प्रत्ययं शब्दं च निर्विषयमाहुः ।
___ घटो हि न प्रतीयत इति । घटस्यादर्शनमात्रमेव तत् केवलम्, न पुनघंटाभावस्यात्र प्रतिभास इत्यर्थः । अदर्शनादेव चास्तित्वासिद्धिः । यैव चास्तित्वासिद्धिः सैव नास्तित्वसिद्धिः' । कः पुनरस्य बौद्धपक्षात् प्राभाकरस्य पक्षस्य विशेषः ? अयं विशेषः–बौ[36B]द्धपक्षेऽनुपलब्ध्या अभावव्यवहारः साध्यः, स च सविकल्पकज्ञानस्वभावः, विकल्पप्रतिभासि च न बाह्यमिति तेषां मतम् ; प्राभाकराणां तु विकल्पस्य बाह्यवस्तुविषयत्वात् तथाविधे व्यवहारेऽनुपलब्ध्याऽभ्युपगम्यमाने बलाद् अभावालम्बनत्वमायातीति तेषां व्यवहारो भूतलघटयोर्वैविक्त्यस्थापनामयः, पुरुषेच्छाकृतः, केवलभूतलदर्शने घटस्मरणे च सति पश्चाद् 'भूतलमेव प्रत्यक्षेण गृहीतं न घटः' इत्येवंरूपो यो भवति, स एव विवक्षितः, न ज्ञानस्वभाव इति । दर्शनादर्शने एवेति । 'घटो हि न प्रतीयते, न तु तदभावः प्रतीयते'' इत्येवं वदद्भिरेवमभ्युपगतं भवति 'घटानुपलम्भव्यतिरेकेणान्यद् घटस्यासत्त्वं नास्ति, स एवासत्वम्' इति ।
खपुष्पस्य पिशाचस्येति । खपुष्पस्य दृश्यत्वाद् अनुपलब्ध्या अभावनिश्चयः, पिशाचस्य मृदन्तरितवारिणश्च दृश्यत्वाभावान्नास्त्यभावनिश्चय इति व्यवस्था । सा अनुपलब्धिमात्रान्नास्तिताव्यवहारिणां भवतां मते विघटते । मृदन्तरितवारिणः सर्व
१ किमनेन प्रमीयते ? उक्तम्-नास्ति इत्ययमर्थः । किं च तन्नास्ति ? प्रमीयमाणस्य प्रमेयता; अतश्चाप्रमितेः प्रमाणतेत्यलौकिकमिव प्रतिभाति । बृहती० पृ०११९ । अदर्शनमभावो हि तन्मात्रानुभवात्मकम् ॥५२॥ तन्मात्रानुभवश्चाय यददर्शनरूपितः। विमृश्यते भूतलादौ तदभावोऽपदिश्यते ॥५३॥ तन्मात्रानुभवश्चायं न मेयः फलभावतः । किश्च स्वयं प्रकाशोऽसाविति न्यायविदो विदुः ॥५४॥ नास्तीति शब्दस्तत्रैव स्वसंवेद्ये प्रवर्तते । तेन नास्तीति विज्ञानभ्यायेम न समागतम् ॥५५ । मेयाभावे ततो मानमभावाख्यं कथं भवेत् । घटसत्ता न लभ्या हि भासत्ता चोदितात् क्रमात् ॥५६॥ प्रकरणपं० अमृत० । २ तस्मान्नास्तीति व्यपदेशोऽप्रमीयमाणतामात्राऽऽलम्बनो न पुनरभाव विग्रहवन्तं गोचरयति । तथा च घटो नास्ति, न प्रमीयत इत्यर्थः । न्यायकणिका पृ०६४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org